________________ विभाग-२ 77 प्रतिवादिना नयनरश्मयोऽर्थदेशेऽपसर्पन्तः स्वीकृताः / तेन नयनस्यातैजसत्वेन प्रतिपादनात् / तत्साधकस्य रूपादिषु नियमेनेत्यादिप्रमाणस्य प्राक्पराकृतत्वेन बाधकस्य चोपन्यस्तत्वेनोभयासिद्धिर्वा / साधनविकलतात्रापि दृष्टान्तस्य स्पष्टैव / अर्थाभिमुख्येन प्रतीत्युत्पादकत्वं पुनर्मनसैवानकान्तिकम् / अथ शरीराबहिर्देशे गोलकस्वरूपे समाश्रितत्वं बहिर्देशावस्थायित्वम् / चेतसा च व्यभिचारोत्सारणाय बाह्येति विशेषणम् / तद्धि देहान्तर्देशसमाश्रितमिति / तदप्यबन्धुरम् / इन्द्रियबाह्यत्वस्याप्राप्तार्थपरिच्छेदेनापि सार्द्धमविरोधात् / न चाविरुद्धं विशेषणं विपक्षेण ततो हेतुं निवर्त्तयति / न च विरोधसाधनसावधानं किञ्चिदिह प्रमाणमस्ति / अथ मनसि प्राप्तार्थपरिच्छेदव्यावृत्त्या बाह्येन्द्रियत्वस्यापि व्यावृत्तेविरोधसिद्धिरभिधीयते / / नैवम् / क्वचित् साध्यनिवृत्तौ साधननिवृत्तावपि विरोधस्यासिद्धेः / अन्यथा चक्षुरप्राप्तार्थपरिच्छेदि स्पर्शनरसननासाश्रोत्रान्येन्द्रियत्वात् मनोवदित्यतः कश्चिच्चक्षुषोऽप्राप्तार्थपरिच्छेदं प्रसाधयन् कथं प्रतिरोत्स्यते / समस्ति खल्वत्राप्यप्राप्तार्थपरिच्छेदव्यावृत्त्या स्पर्शनरसननासाश्रोत्रान्येन्द्रियत्वस्यापि व्यावृत्तिः स्पर्शनादाविति / तस्माद्व्यतिरेकानिश्चयात्सन्दिग्धव्यतिरेको हेतुः / बहिष्कारणप्रभवत्वमपि मनसैव व्यभिचारि / आत्मापेक्षया हि बहिष्कारणं पुद्गलतत्त्वं तत्प्रभवत्वं च चक्षुरादीन्द्रियवन्मनसोऽप्यस्त्येव / तस्यापि पौद्गलिकत्वेन षट्पदार्थपरीक्षायां समर्थयिष्यमाणत्वात् / चक्षुः प्राप्यकारि भौतिकत्वादित्यत्रापि प्राप्यकारीति कोऽर्थः / प्राप्य संयुज्य स्वकार्यं करोतीति चेत् / ननु प्राप्तिरपि स्वकार्यं तदपि च प्राप्य करोत्यन्यथा वा / प्राप्यचेत्, तर्हि सापि प्राप्तिः प्राप्यैव कर्तव्येति प्राप्ति-परम्परोत्पाद एवोपशान्तशक्तित्वात्प्रस्तुतकार्यानिष्पत्तेरनवस्था / अन्यथेति पक्षे त्वनयैव व्यभिचारः / अथ ज्ञानरूपकार्यापेक्षयैव चक्षुषः प्राप्यकारित्वसाधनान्नोक्तदोषानुषङ्गः / ननु कुत एतदाप्तमायुष्मता / प्राप्यकारीति शब्दस्य प्राप्तिपूर्वक्रियामात्राभिधानपर्यवसितत्वात् / न च शब्दान्तरमस्ति यत्सन्निधानादयं "देवस्य शृंगारिणः" इत्यादिवदभिमतार्थवृत्तिः स्यात् / अथ सैन्धवादिवत्प्रकरणवशादस्याभीष्टार्थनिष्ठाभिधीयते / तथाहि प्राप्य वा चक्षुप्ति कुर्यादप्राप्य वेत्यत्र प्रस्तावे प्रोच्यते चक्षुः प्राप्येत्यादि / तदपि नोपपन्नम् / एवं सति निदर्शनस्य साध्यशून्यतापत्तेः / परश्वधो हि पादपं प्राप्य द्वैधीभावमेव विधत्ते नतु ज्ञप्तिम् / अथाभिदध्यात्कश्चित, स्वविषयज्ञप्तिकरणापेक्षया परशुनिदर्शनमुपदर्शितो न च्छिदपेक्षया / तथा च न साध्यवैकल्यं दोषः / प्राप्यैवेन्द्रियं तेन ज्ञप्तिकरणादिति / सोऽपि नोपपन्नवक्ता / यतश्चाक्षुषीं स्पार्शनी वा ज्ञप्तिमपेक्ष्य तेनैतदुच्येत / यदि पौरस्त्यम् / तदा सैव साध्यशून्यता निदर्शनस्य / चक्षुरर्थयोः प्राप्तेरद्याप्यसिद्धेः / अथ स्पार्शनी तामपेक्षोच्यते / अस्त्वेवम् / किन्तु हेतोर्मेरुणा मन:परिच्छेद्येन व्यभिचारः / भौतिकेनापि तेन मनोऽप्राप्तेनैव स्वपरिच्छित्तिकरणात् /