________________ 78 सन्दर्भग्रन्थाः अथ करणभूतेन येन परिच्छित्तिर्जन्यते स एव प्राप्यकारीह सङ्गतो न विषयत्वेनापि / तर्हि दृष्टान्तान्तरं वक्तव्यम् / न प्रकृतम् / अस्तु प्रदीपादिररेवासौ तेन हि करणभूतेन रश्मिद्वारेण प्राप्त एवार्थः प्रकाश्यत इति चेत् / नैवम् / एवमपि हेतोः प्रतिबन्धानिश्चयात् / साधर्म्यमात्रेण तन्निश्चयायोगात् / अप्राप्यकारित्वमपि स्पृशतो भौतिकत्वस्य न किञ्चित्परिपन्थिप्रमाणमिति / एतेन कारकत्वादिति साधनं यत्केनचिदुच्यते / तदपि परास्तम् / अयस्कान्तेन च व्यभिचारीदम् / तेनाप्राप्तस्यैव लोहस्याकर्षणात् / अथ तस्यापि प्राप्तस्यैवाकर्षणम् / अयस्कान्तो हि वायुद्वारेण तदाकर्षति यथा पुरुषो नालान्तर्वायुप्रयोगेण पानीयादि / संयुक्तसंयोगश्चात्र प्राप्तिः / तदसत् / वायोस्तत्राप्रमाणत्वात् / न तावत्प्रत्यक्षं तद्ग्राहकम् / अननुभवात् / अनुमानमपि नास्ति / समाकर्षणस्यान्यथानुपपत्तिरस्ति इति चेत्, न / अप्राप्तस्याप्याकर्षणोपपत्त्यास्या उपक्षीणत्वात् / अप्राप्तस्याप्याकर्षणे कथं न सकललोहाकर्षणम् / प्राप्तस्याप्याकर्षणे कथं न तद्देशवर्तितृणतूलादिसमाकर्षणम् / तस्यायोग्यत्वादिति चेत् / अनयैवोक्त्यामृतमास्वादय / सकललोहानामयोग्यत्वादप्राप्तत्वाविशेषेऽपि नाकर्षणं भवेदस्ति चैतदिति तुल्यम्। वाद्यन्तरं प्रत्येवास्य योग्यतेति चेत्, किमेतदेवान्यत्रापि न पश्यसि / किं च कुतोऽयसः समाकर्षणान्यथानुपपत्तिः / कारकत्वाख्याद्धेतोरिति चेत् / अयमभिसन्धिः / सकलं कारकं प्राप्त एव वस्तुनि फलमुत्पादयदवलोकितं कारक एवायस्कान्त इति / तदसुन्दरम् / इतरेतराश्रयप्रसङ्गात् / कारकत्वस्य हेतुत्वसिद्धावयस्कान्तस्य प्राप्तार्थसमाकर्षणसिद्धिस्तत्सिद्धौ च कारकत्वस्य हेतुत्वसिद्धिरिति / यदि च वायुद्वारेण तदाकर्षणमुच्यते / तदा तिर्यगेव तदाकर्षणं भवेन्न पुनरूर्ध्वम् / वायोस्तिर्यक्पवनस्वभावत्वात् / वात्यादौ तु विरुद्धदिक्क्रियवायुद्वयसंयोगनिमित्तत्वेनोर्ध्वगतेर्भवद्भि र्व्यवस्थापितत्वात् / न चात्रापि तथाविधा कल्पना ज्यायसी / तथाननुभवात् / अनुमानबाधितं च तत्र वायुपरिकल्पनम् / तथा हि चुम्बको नायसो वायुद्वारेणाकर्षकस्तत्रावस्थितलघुतरतृणतूलाद्यनाकर्षणान्यथानुपपत्तेः / कथं च तिलकादिना कान्तादीनामाकर्षणम् / तत्रापि पवनोऽस्तीति महासाहसिकस्योल्लापः / न खलु यथा वात्यादिना परवशीभूता कान्ता समानीयते / तथात्रापि पवनविशेषेणेति प्रतीतिरस्तीति। यदप्यवादि प्रथमतो हि चक्षुः सन्निहितमित्यादि, यदपि च संसर्गिद्रव्यतया नि:सरदेव नायनं तेजो बाह्यालोकेनैकताङ्गतं युगपदेव तावदथैः संसृष्टमिन्द्रियमुत्पादितवदिति भूधरशशधरयोस्तुल्यकालग्रहणमुपपद्यत इति केनचित् उच्यते तदपि चक्षुषो रश्मिवत्त्वपराकरणादपाकृतम् / उत्तरमते च पृष्ठस्थितस्य व्यवहितस्य चार्थस्योपलम्भः / प्रसज्यते / अथानार्जवावस्थितस्य व्यवहितस्य कथं ग्रहणमस्तु / मैवम् / आर्जवावस्थितस्य व्यवधानाश्रयणस्येन्द्रियप्राप्त्यर्थत्वात्तस्याच्च तथास्थितेऽप्यर्थे सातत्वात् /