________________ विभाग-२ 79 ___ यदि च चक्षुः प्राप्यकारि / तदा कथं संशयविपर्ययप्रादुर्भावः / सामान्यवद्विशेषाणामपि सनिकृष्टानामुपलम्भसम्भवात् / तथा च कथं विशेषानुपलब्धिनिबन्धनौ संशयविपर्ययौ स्याताम् / यत्पुनरात्रेयभाष्यकारः प्राह / "यथा सामान्यस्य विशेषाणां च प्रदीपालोकेन सन्निकृष्टत्वेन दूरात्सामान्यमुपलभ्यते न विशेषा इति प्रदीपालोककारितौ संशयविपर्ययौ भवतः तथा सामान्यस्य विशेषाणां च चक्षुषा सन्निकृष्टत्वेऽपि दूरात्सामान्यमुपलभ्यते न विशेषा इति चाक्षुषौ संशयविपर्ययौ भवतः / तत्र महाविषयत्वात्सामान्यं दूरादप्युपलभ्यतेऽल्पविषयत्वात्तु विशेषान दूरादुपलभ्यन्त इति संशयविपर्यययोरुपपत्तिः" इति / तदपि न क्षोदक्षमम् / महाविषयत्वस्योपलम्भ प्रत्यप्रयोजकत्वात् / न खलूपलभ्यमानादितरे विषयाः कणिकयापि तत्सामान्यज्ञप्तावुपयुज्यन्ते / यतस्तद्भूयस्त्वं दूरात्तत्स्थसामान्योपलब्धौ निमित्तं स्यात् / यस्तु प्रदीपो दृष्टान्ततयोपदिष्टः सोऽपि न श्रेष्ठः / येन हि सन्निकर्ष उपलम्भकारणतया कथ्यते तस्य प्रदीपेऽपि सामान्यवद्विशेषाणामुपलम्भकत्वप्रसक्ति१निवारा / अस्माभिस्तु प्रदीप एवोपलम्भं प्रति निमित्तमुच्यते / स च स्वयोग्यतावशेन दूरात्सामान्यमेवोपलम्भयतीति युक्तम् / तद्वदेव यदि चक्षुषोऽपि योग्यता स्वीक्रियते कृतं सन्निकर्षेण / संन्निकर्षाभावे योग्यमपि कथमुपलम्भं करोति चक्षुः / न हि योग्योऽपि प्रदीपोऽप्राप्त पटादि प्रकटयतीति चेत्, ननु कुत एतत् / तस्य व्यवहिताप्रकाशकत्वादिति / चेत् / न / अस्य निराकृतत्वात् / अनुमानबाधितं च चक्षुषः प्राप्तार्थप्रकाशनम् / तथा हि चक्षुरप्राप्तार्थप्रकाशकं व्यवहितस्यापि प्रकाशकत्वात् यत्तु नैवं न तदेवं यथा श्रोत्रं तथा चेदं ततस्तथा / प्रसाधितं च काचादिव्यवहितस्यापि चक्षुषः प्रकाशकत्वमिति न साधनासिद्धिः। / योग शाम्यतु तवैष दोहदः प्राप्यकारिणि तदीक्षणे क्षणात् // हन्त यत्किमपि कर्कशोत्तरैः कीलिता सकलयुक्तिमण्डली // (318) // रत्नाकरावतारिका // यदि च रूपं सहकारि कल्प्यते, तदा समाकलितसकलनेत्रगोलकस्य दूराऽऽसन्नतिमिररोगावयविनः कथं नोपलब्धिः ? / अथाऽत्यन्ताऽऽसत्त्यभावोऽपि सहकारी, न चासौ तिमिरेऽस्तीति चेत् / नन्वियमासत्तिरात्मापेक्षया, शरीरापेक्षया, लोचनापेक्षया, तदधिष्ठानापेक्षया वा विवक्षांचक्रे प्रेक्षादक्षेण ? / आद्ये कल्पे, कथं कस्यापि पदार्थस्योपलब्धिः ?, व्यापकस्याऽऽत्मनः सर्वभावैरासत्तिसंभवात् / द्वितीये, कथं करतलतुलितमातुलिङ्गादेरुपलम्भः ? / तृतीये, कथं क्वापि चाक्षुषप्रत्यक्षमुन्मज्जेत् ?, चक्षुषः प्राप्यकारित्वकक्षीकारेण सर्वत्र स्वगोचरेणाऽऽसत्तिसद्भावात् / तुरीये, कथमधिष्ठानसंयुक्ताञ्जनशलाकायाः समुपलब्धिः? / अथ येनांशेन तस्यास्तत्र संसर्गः स नोपलभ्यत