________________ 80 . सन्दर्भग्रन्थाः एव / नैवम्, अवयविनो निरंशत्वेन स्वीकारात् / अपि च, कथमुदीची प्रति व्यापारितनेत्रस्य प्रमातुन कांचनं काञ्चनाऽचलोपलब्धिमनुभवामः ? / न च दवीयस्त्वाद् न तत्र नेत्ररश्मयः प्रसतुं शक्ताः, तेषां शशाङ्केऽपि प्रसरणाभावापत्तेः / अथ तदालोकमिलितास्ते वर्धन्ते, तर्हि खरतरकरनिकरनिरन्तराऽऽपूरितविष्टपोदरे मरीचिमालिनि सति सुतरां सुराद्रिमभिसर्पतां तेषां वृद्धिर्भवेत् / न च दिनकरमरीचीनां नितरां कठोरत्वेन तैस्तेषां प्रतिघातः, तदाऽऽलोककलापाऽऽकलितकलशकुलिशादिपदार्थानामप्यनुपलम्भापत्तेः / ततो न सन्निकर्षसद्भावेऽप्यवश्यं संवेदनोदयोऽस्ति / इदमिदानीं मनाग् मीमांसामहे प्राप्यकारीणीन्द्रियाणि, अप्राप्यकारीणि वेति / तत्र प्राप्यकारीण्येवेति कणभक्षाऽक्षपादमीमांसकसांख्याः समाख्यान्ति / चक्षुःश्रोत्रेतराणि तानि तथेति ताथागताः / चक्षुर्वर्जानीति तु तथा स्याद्वादाऽवदातहृदयाः / तत्र प्रथमे प्रमाणयन्ति चक्षुः प्राप्य मतिं करोति विषये बाह्येन्द्रियत्वादितो; यद् बाह्येन्द्रियताऽऽदिना परिगतं तत् प्राप्यकारीक्षितम् / जिह्ववत् प्रकृतं तथा च विदितं तस्मात् तथा स्थीयतां; नाऽत्राऽसिद्धिमुखश्च दूषणकणस्तल्लक्षणाऽनीक्षणात् // 1 // अद्रिचन्द्रकलनेषु या पुनर्योगपद्यधिषणा मनीषिणाम् / पद्मपत्रपटलीविलोपवत् सत्वरोदयनिबन्धनैव सा // 2 // प्रथमतः परिसृत्य शिलोच्चयं निकटतः क्षणमीक्षणमीक्षते / तदनु दूरतराम्बरमण्डलीतिलकान्तमुपेत्य सितत्विषम् // 3 // कुर्महेऽत्र वयमुत्तरकेली कीदृशी दृगिह धर्मितयोक्ता ? / किं नु मांसमयगोलकरूपा, सूक्ष्मताभृदपरा किमु काऽपि ? // 4 // आदिमा यदि तदाऽपि किमर्थो लोचनाऽनुसरणव्यसनी स्यात् ? / लोचनं किमुत वस्तुनि गत्वा संसजेत् प्रिय इव प्रणयिन्याम् ? // 5 // प्रत्यक्षबाधः प्रथमप्रकारे प्राकारपृथ्वीधरसिन्धुरादिः / संलक्ष्यते पक्ष्मपुटोपटङ्की प्रत्यक्षकाले कलयाऽपि नो यत् // 6 // . पक्षे परत्रापि स एव दोषः सर्पद् न वस्तु प्रतिवीक्ष्यतेऽक्षि / संसर्पणे वाऽस्य सकोटरत्वप्राप्त्या पुमान् किं न जरद्रुमः स्यात् ? / / 7 // चक्षुषः सूक्ष्मतापक्षे सूक्ष्मता स्यादमूर्तता / यद्वाऽल्पपरिमाणत्वमित्येषा कल्पनोभयी // 8 //