________________ विभाग-२ स्याद् व्योमवद् व्यापकताप्रसक्त्या सर्वोपलम्भः प्रथमप्रकारे / प्राकारकान्तारविहारहारमुख्योपलम्भो न भवेद् द्वितीये // 9 // न खलु नखलु शस्त्रं स्वप्रमाणात् प्रथिष्ठे; पटकटशकटादौ भेदकारि प्रसिद्धम् / अथ निगदसि तस्मिन् रश्मिचक्रं क्रमेण; प्रसरति तत एतत् स्यादनल्पप्रकाशम् // 10 // तथाहिप्रोद्दाममाणिक्यकणानुकारी दीपाकुरस्त्विट्पटलीप्रभावात् / किं नैव कश्मीरजकज्जलादीन् प्रथीयसोऽपि प्रथयत्यशेषान् ? // 11 // नन्वेवमध्यक्षनिराक्रिया स्यात् पक्षे पुरस्तादुपलक्षितेऽस्मिन् / प्रौढप्रभामण्डलमण्डितोऽर्थो नाऽऽभासते यत्प्रतिभासमानः // 12 // अथाऽप्यनुद्भूततया प्रभायाः पदार्थसंपर्कजुषोऽप्यनीक्षा / सिद्धिस्तदानीं कथमस्तु तस्या ब्रवीषि चेत् तैजसताख्यहेतोः // 13 // रूपादिमध्ये नियमेन रूपप्रकाशकत्वेन च तैजसत्वम् / प्रभाषसे चक्षुषि संप्रसिद्धं यथा प्रदीपाकुरविद्युदादौ // 14 // तदिदं घुसृणविमिश्रणमन्ध्रपुरन्ध्रीकपोलपालीनाम् / अनुहरते व्यभिचाराद् रूपेक्षणसन्निकर्षेण // 15 // द्रव्यत्वरूपेऽपि विशेषणे स्याद् हेतोरनैकान्तिकताऽञ्जनेन। तस्यापि चेत् तैजसतां तनोषि तन्वादिना किं नु तदाऽपराद्धम् ? // 16 // सौवीरसौवर्चलसैन्धवादि निश्चिन्वते पार्थिवमेव धीराः / कृशानुभावोपगमोऽस्य तस्मादयुक्त एव प्रतिभात्यमीषाम् / / 17 / / तथा चसौवीरसौवर्चलसैन्धवादिकं स्यादाकरोद्भतिवशेन पार्थिवम् / मृदादिवद्, न व्यभिचारचेतनं चामीकरणाऽनुगुणं निरीक्ष्यते // 18 // चामीकरादेरपि पार्थिवत्वं लिङ्गेन तेनैव निवेदनीयम् / शाब्दप्रमाणेन न चात्र बाधा पक्षस्य यद् नास्ति तदत्र सिद्धम् // 19 // ..