________________ 2 सन्दर्भग्रन्थाः अञ्जनं मरिचरोचनादिकं पार्थिवं ननु तवाऽपि संमतम् / अञ्जनेऽपि तदसौ प्रवृत्तिमानप्रयोजकविडम्बडम्बरी // 20 // हनूमल्लोललाङ्गललम्बात् ते साधनादतः / न सिद्धस्तैजसत्वस्य दृष्टसुस्पष्टदूषणात् / / 21 / / चक्षुर्न तैजसमभास्वरतिग्मभावादम्भोवदित्यनुमितिप्रतिषेधनाच्च / सिद्धिं दधाति नयनस्य न तैजसत्वं; तस्मादमुष्य घटते किमु रश्मिवत्ता ? // 22 // अपि च, . प्रत्यक्षबाध: समलक्षि पक्षे न रश्मयो यद् दृशि दृष्टपूर्वाः / तथा च शास्त्रेण तवैव कालातीतत्वदोषोऽप्युदपादि हेतोः // 23 // अनुद्भवद्रूपजुषो भवेयुश्चेद् रश्मयस्तत्र ततो न दोषः / नन्वेवमेतस्य पदार्थसार्थप्रकाशकत्वं न सुवर्णवत् स्यात् // 24 // आलोकसाचिव्यवंशादथाऽस्य प्रकाशकत्वं घटनामियति / नन्वेवमेतत्सचिवस्य किं स्यात् प्रकाशकत्वं न कुटीकुटादे: ? // 25 // अथाऽस्तु कामं, ननु तैजसत्वमुत्तेजितं किं न भवेत् त्वयाऽस्य ? / तथा च नव्यास्त्वदुपज्ञ एषोऽद्वैतप्रवादोऽजनि तैजसत्वे // 26 // उत्पद्यन्ते तरणिकिरणश्रेणिसंपर्कतश्चेत्, तत्रोद्भूताः सपदि रुचयो लोचने रोचमानाः / यद् गृह्यन्ते न खलु तपनालोकसंपत्प्रतान-; स्तस्मिन् हेतुर्भवति हि दिवा दीपभासामभासः / / 27 / / अत्रेयं प्रतिक्रियामुष्टिग्राह्ये कुवलयदलश्यामलिम्नाऽवलिप्ते; स्फीते ध्वान्ते स्फुरति चरतो घूककाकोदरादेः / किं लक्ष्यन्ते क्षणमपि रुचो लोचनेनैव यस्मा-; दालोकस्य प्रसरणकथा काचिदप्यत्र नास्ति ? // 28 //