SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ विभाग-२ 67 सामर्थ्यं विषये तस्यैव वाऽक्षयोपशमादसामर्थ्यं विषये, तथा रूपालोकमनस्कारानुग्रहाच्च सामर्थ्य तस्यैव चाननुग्रहादसामर्थ्यमिति गाथार्थः // 249 // xx......xx पुढे सुणेइ सदं स्त्वं पुण पासई अपुढे तु / गंधं रसं च फासं च बद्धपुटुं वियागरे // 336 // (नि. 5) पुढे रेणुंव तणुम्मि बद्धमप्पीकयं पएसेहिं / छिक्काइं चिय गिण्हइ सद्ददव्वाइं ज ताई // 337 // बहुसुहुमभावुगाई जं पडुययरं च सोत्तविण्णाणं / गंधाई दव्वाइं विवरीयाइं जओ ताई // 338 // फरिसाणतरमत्तप्पएसमीसीकयाइं घेप्पंति / पडुयरविण्णाणाइं जं च न घाणाइकरणाइं // 339 // 'पुढ'मित्यादि, पुटुं-आलिंगियं रेणुं व तणुंमि शृणोति गृह्णात्युपलभत इति पर्यायाः, कं ?शब्द्यतेऽनेनेति शब्दः तं, शब्दप्रायोग्यां, द्रव्यसंहतिमित्यर्थः, तस्य बहुसूक्ष्मभावुकत्वात् श्रोत्रेन्द्रियस्य चान्येन्द्रियगणतः पटुतरत्वात्, तथा रूप्यत इति रूपं तद्रूपं पुन पश्यतिगृह्णाति उपलभते 'अपुटुं' अस्पृष्टमेवानालिङ्गितमेव, कि कारणम् ?, चक्षुषः अप्राप्यकारित्वात्, पुनःशब्दस्य विशेषणार्थत्वात् अस्पृष्टमपि योग्यदेशस्थं नायोग्यदेशस्थमपि सौधर्मादीति, गन्ध्यत इति गन्धस्तं, रस्यत इति रसस्तं, स्पृश्यते इति स्पर्शस्तं च, च शब्दौ पूरणार्थों, बद्धं आत्मीकृतमात्मप्रदेशस्तोयवदाश्लिष्टमित्यर्थः, 'पुढे तु' पूर्ववत्, प्राकृतशैल्या चेत्थमाह 'बद्धपुढे तु', अर्थतस्तु 'पुट्ठ बद्ध'मिति दृश्यं, अनुगुणत्वात्, अत्राह-यद् बद्धं गन्धद्रव्यादि तत् स्पृष्टं भवत्येवेति स्पृष्टग्रहणं न कर्त्तव्यं, तन्न, सकलश्रोतृसाधारणत्वाच्छास्त्रारम्भस्य, प्रपञ्चितज्ञानानुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्यदोषात्, अथवा स्पृष्टं च तद् बद्धं चेति विशेषणसमासाङ्गीकरणाददोषः तत्र स्पृष्टं गन्धादि विशेष्यं वर्तते, बद्धमिति तु विशेषणम्, आह-एवमपि स्पृष्टग्रहणमतिरिच्यते, बद्धस्य स्पृष्टत्वाव्यभिचारादुभयपदव्यभिचारे च विशेषणविशेष्यभावो दृष्ट यथा नीलोत्पलमिति, नचेहोभयपव्यभिचारः एकपदव्यभिचाराद् उच्यते, एकपदव्यभिचारेऽपि विशेषणविशेष्यभावो दृष्ट एव, यथाऽप् द्रव्यं पृथिवी द्रव्यमिति, तत्र अप् द्रव्यं नियमात् द्रव्यं पुनरब् वाऽनब् वेति, तद्वदत्रापि भावार्थस्त्वयं स्पृष्टानन्तरमात्मप्रदेशैरागृहीतं गन्धादि बादरत्वात् अभावुकत्वादल्पद्रव्यरूपत्वात् घ्राणादीनां चापटुत्वात्, गृह्णाति विनिश्चिनोति घ्राणेन्द्रियादिगण इत्येवं 'व्यागृणीयात्' प्रतिपादयेदिति नियुक्तिगाथासमुदायार्थः // 336 // अवयवार्थस्तु भाष्यकार आह-'पुटुं'मित्यादि 'बहु' इत्यादि 'फरिसे 'त्यादि, गाथात्रयं भावतार्थम् // 337-38-39 // 'स्वं पुण पासती अपुढे तु' इत्येतद्विशेषतो व्याचिख्यासुराह अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं / आयंगुलेण लक्खं अइरित्तं जोयणाणं तु // 340 //
SR No.004442
Book TitleChakshurprapyakaritawad
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2009
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy