________________ सन्दर्भग्रन्थाः वाऽन्यतः स्वतन्त्रतया आगतं सद्रूपं चक्षुर्न गृह्णात्यञ्जनादिभिर्व्यभिचारात्, श्रोत्रेन्द्रियं शब्दमिव, नियमोऽयमितिएतदत्र नियम्यते वाचो युक्त्या, काक्वा पच्छद्धमाह-'पत्तेण उ' चक्षुर्देशे 'मुत्तिमया' रविकरादिना 'उपघातानुग्रहौ' परितापाह्लादौ भवेतांस्यातां एतत्स्वभावत्वात् पुद्गलानां, वनस्पत्यादयस्तु दूरस्था एव गृह्यन्त इति गाथार्थः // 21 // अपिच-'जती'त्यादि / यदि तु प्राप्त सन्तमर्थमक्षि गृह्णीयात्-ततस्तद्गतं रजोमलाद्यपि गृह्णीयात्, तस्यैव परमार्थप्राप्तेः, यतश्च न पश्यत्यत इदमप्राप्यकारीति गाथार्थः // 212 // तत्रैतत्स्यात्प्राप्यकारि चक्षुः आवरणात् स्पर्शनवत्, न, मनसाऽनैकान्तिकत्वात्, अप्राप्यकारि चक्षुरावरणान्मनोवत्, तथा च मनः खल्वप्राप्यकारि भाविसिद्ध्या विषादिभिश्चावियत इति, रूपावरणेऽपि ह्यग्राहकं चक्षुर्बाह्यानुग्रहाभावान्मनोवत्, तथाहि-मनोऽप्राप्यकारित्वे सत्यप्पैन्द्रियकेषु न क्वचिदनुप्रवर्त्तत इति, इन्द्रियानुग्रहशून्यं सदिति, यस्य चाभिप्रायः खल्वप्राप्यकारिणा चक्षुषा बाह्यानुग्रहनिरपेक्षेणाप्यनुवर्तितव्यं तस्य मनसाऽपीन्द्रियैः प्रकाशितेष्वप्रकाशितेषु वा विशेषेण सर्वार्थष्वनुप्रवर्त्तितव्यम्, न चानुप्रवर्त्ततेऽत्यन्तमदृष्टाश्रुतादिष्विति / 'जती'त्यादि / नयनेन्द्रियमाभ्यां हेतुदृष्टान्ताभ्यामप्राप्यकारि कस्मात् सकलं त्रैलोक्यं न गृह्णाति दृष्टान्तधम्मिमन इव ?, अतः, पश्चाद्धं स्पष्टम् // 245 / / तस्मात्-'विसयेत्यादि / 'तस्स 'त्ति तस्य चक्षुषो 'विषयपरिमाणं' आलम्बनपरिमाणं 'अनियतम्' अनन्तं अप्राप्तविषयत्वात् मनस इव, अत्राचार्यः साध्यविकलतां दृष्टान्तस्योद्भावयन्नाह-मनसोऽप्य-प्राप्यग्राहिणो विषयेऽयं नास्त्येव, यस्मान्न तत्सर्वत्र कामतीति // 246 // तथाहि-'अत्थे 'त्यादि / 'अर्थगहनेषु' अर्थगुपिलेषु वस्तुष्वागमगम्येषु सत्स्वपि' विद्यमानेष्वपि कस्यचिन्मनो 'मुह्यति' कुण्ठीभवति, तथा केवलादिगम्येषु च, अतोऽहमपि भवन्तं पृच्छामितत्कि कृतं मनसोऽग्रहणं ?, अतीन्द्रियैन्द्रियकाणां भावानां, कस्मिन् सतीत्याह-अप्राप्य-कारित्वे सामान्ये ग्राह्याग्राह्येष्विति गाथार्थः // 247 // एवं पृष्टः पर आह'कम्मो 'इत्यादि / कर्मोदयात् तत्स्वाभाव्याद्वाऽप्राप्यकारित्वे सति ग्रहणाग्रहणं, सूरिराह ननु लोचनेऽपि तद्ग्रहणाग्रहणं तुल्यं कम्मोदययोव्व सभावउव्वत्ति, तदेवं अप्राप्यकारिवादिना प्राप्यकारिवाद्युक्तप्रसङ्गसाधने परिहते प्राप्यकारिवादिनोऽप्यमुं दोषं गुणं वाऽभिधित्सुराहतुल्यो वा एष उपालम्भःसर्वासर्वग्रहणलक्षणः प्राप्यकारिवादिनोऽपि भवतः, कस्मिन् सतीत्याह-'संपत्तविसयेऽवित्ति नयनमनसोः प्राप्तेऽप्यर्थ इत्युक्तं भवति, तथाहि-न यावता नयनमभिसम्बध्यते तत्सर्वमेव गृह्यते अञ्जनरजोमलशलाकादिभिर्व्यभिचारात्, मनसा त्वनवस्थानान्न गृह्यते, गृह्यते च सम्बद्धमप्यनुभवादिति गाथार्थः // 248 // अथ सद्भावमाह-'सामत्थे'त्यादि / नयनं विषयपरतो न गृह्णाति सामर्थ्याभावात् मनोवत्, साधितश्च दृष्टान्तः, सामर्थ्यासामर्थ्यमेव कुतः ? इत्याह-कर्मक्षयोपशमात्