________________ विभाग-२ 65 पश्यतु, अप्राप्तत्वाविशेषात्, इत्याशय, यदिन्द्रियाणां विषयपरिमाणं भणनीयत्वेन प्राक् प्रतिज्ञातं, तत्र चक्षुषस्तावत् तदाह-'नयणस्सेत्यादि' नयनेन्द्रियस्याऽऽगमे आत्माङ्गलेन सातिरेकं योजनलक्षमुत्कृष्टतोऽपि विषयपरिमाणमभिहितम्, तेनाऽप्राप्तकारित्वाविशेषेऽपि परतो न पश्यतीति भावः / // श्री विशेषावश्यकभाष्य-कोट्याचार्यांयटीका // ‘णयणे'त्यादि / नयनमनसी वर्जयित्वा व्यञ्जनावग्रहश्चतुर्धा, 'तंजहाफासिंदियवंजणोग्गहे जिब्भिदिय० घाणिदिय० सोइंदियवंजणोग्गहे' इन्द्रियत्वे तुल्ये केयं मुखपरीक्षिका ? इति चेत्, उच्यते, 'उवघायाणुग्गहतो' यद्-यस्मात्तानिस्पर्शनादीनि 'प्राप्यतकारीणि' स्पृष्टार्थग्राहिणीति गाथार्थः // 204 // अत्राह-'जुज्जती'त्यादि / स्पर्शनरसनयोः सा युज्यते, अनुभाविकत्वात्, न श्रोत्रघ्राणयोः, गृहीतः स्वविषयं आत्मीयं ग्राह्यमितं अस्मादिन्द्रियविवराद् ‘भिन्नदेशमपि' विप्रकृष्टक्षेत्रव्यवस्थितमपि, दूरे ध्वनिः श्रूयत इति वचनात्, अतः किमुच्यते-'वंजणोग्गहो चउह'त्ति गाथार्थः // 205 // उच्यते नैतद्, उद्भ्रान्तत्वाद् भवतः, तथाहि-'पावंती'त्यादि / 'धूमो' इत्यादि / इह शब्धगन्धावन्यत आगत्य प्राप्नुतः, के ? ते-श्रोत्रघ्राणे कर्मणी, ते तु श्रोत्रघ्राणे गत्त्वा विषयदेशं स्वयं न गृह्णीतः तेन ते अप्राप्यकारिणी स्यातां, अबाह्यकारणत्वात् स्पर्शनवत्, आह-तावपि कस्मात् न प्राप्नुतः ? इत्यत-आह-यद्-यस्मात्तौ पुद्गलमयत्वे सति सक्रियौ, कुत एतदित्याहवायुवहनाद् धूमवत्, तथा सक्रियौ तौ 'संहरणतो'त्ति गृहादिषु पिण्डीभवनाद् धूमवदेव, तथा द्वारानुविधानतो विशेषेण, तोयवत्, तथा नितम्बादिप्रस्खलनान् मरुद्वदिति गाथाद्वयार्थः // 206 // // 207 // तस्मात्'गेण्हंती'त्यादि, श्रोत्रघ्राणे प्राप्तं सन्तमर्थ गृह्णीतः, उपघातानुग्रहोपलब्धः, स्पर्शनरसने इव, आहअप्राप्यकारित्वे सतीयं भविष्यतीत्यनैकान्तिको हेतुरिति, तन्न, यतः-'बाहिज्जे 'त्यादि, प्रतिज्ञा रोगहेतुत्वात् आकाशवदिति, अतो यदुक्तं 'नयने'त्यादि तत्स्थितमिति गाथार्थः // 208 // अथ कस्मादयं न षोढा? उच्यते, नयनमनसोप्राप्यकारित्वेन व्यञ्जनोपादानायोगाद्, आह च'लोयण'मित्यादि // 'लोयण'मित्यादि, अप्राप्यकारि लोचनमालम्ब्यकृतोपघातानुग्रहशून्यत्वात् मनोवत्, तत्रैतत्स्याद्-असिद्धो हेतुर्यतः जलघृतवनस्पतीन्दुमण्डलालोकनेऽनुग्रह उपलभ्यते सूरसितभित्त्याद्यालोकने चोपघात इति गाथार्थः // 209 // तदेवमसिद्धीभूते हेतावाचार्य आह'डज्झेज्ज' इत्यादि / चक्षू रविकरादिना पुद्गलधर्मेण 'प्राप्य' आश्लिष्य ‘दह्येत' भस्मीक्रियेत विह्वलीक्रियेत वा स्पर्शनमिवान्वयय्येव दृष्टान्तः, इत्यतः को देशो ?, नैव कश्चिद्, दृष्टस्य बाधितुमशक्यत्वात्, तथा मन्येतानुग्रहमपि चक्षुः स्पर्शनवदुपघाताभावात् सौम्ये जलघृतवनस्पतीन्द्वालोकने सति, अत्रापि को दोषः ? // 210 // ___ काममेतत्, किन्तु-'गंतु' मित्यादि / इह हि चक्षुरुत्प्लुत्यगत्वा रूपदेशमादित्यमण्डलादिलाञ्छितं न पश्यतिनादत्ते, किं ?, रूपमेवेति गम्यते अन्यस्याश्रुतत्वात्, तथा-'पत्तं संयं व' त्ति स्वयं