________________ सन्दर्भग्रन्थाः स्पर्शनानन्तरं बद्धमात्मप्रदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमिति / एवं व्यागृणीयात् प्ररूपयेत् प्रज्ञापकः, यतो घ्राणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि, बादराणि, अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपटूनि च घ्राणादीनि; अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः / ननु यदि स्पर्शानन्तरं बद्धं गृह्णाति, तर्हि 'पुट्ठबद्धं' इति पाठो युक्तः, इति चेत् / उच्यते-विचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम् / अपरस्त्वाह-यद् बद्धं तत् स्पृष्टं भवत्येव, विशेषबन्धे सामान्यबन्धस्याऽन्तर्भावात्, ततः किं स्पृष्टग्रहणेन ? इति / तदयुक्तम्, सकलश्रोतृसाधारणत्वाच्छास्त्रारम्भस्य, प्रपञ्चितज्ञाऽनुग्रहार्थमर्था-पत्तिगम्यार्थाभिधानेऽप्यदोषादिति // चक्षुरिन्द्रियं त्वप्राप्तमेव विषयं गृह्णाति, इत्याह-'रूवं पुण पासई अपुढे त्विति' रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति / पुनःशब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नाऽयोग्यदेशस्थं सौधर्मादि, कंटकुट्यादिव्यवहितं वा घटादि // इति नियुक्तिगाथार्थः 336 अथैतद्व्याख्यानाय भाष्यम्पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं / छिक्काई चिय गिण्हइ सद्ददव्वाइं जं ताई // 337 // बहु-सुहुम-भावुगाई जं पडुयरं च सोत्तविण्णाणं / गंधाईदव्वाइं विवरीयाई जओ ताई // 338 // फरिसाणंतरमत्तप्पएसमीसीकयाइं घेप्पंति / पडुयरविण्णाइं जं च न घाणाइकरणाई // 339 // . 'स्पृष्टं' इत्यस्य व्याख्यानं 'पुटुं रेणुं व तणुम्मि त्ति' यथा रेणोस्तनौ संबन्ध इत्येतावन्मात्रेण यद् वस्तु संबद्धं तदिह स्पृष्टमुच्यत इति भावः / 'बद्धमित्यादि' यदात्मीकृतमात्मना गाढतरमागृहीतम्, आत्मप्रदेशस्तनुलग्नतोयवद् मिश्रीभूतं तद् बद्धमुच्यत इत्यर्थः / तत्र 'छिक्काई चिय त्ति' स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम्, यतस्तानि बहूनि, सूक्ष्माणि, भावुकानि च वासकानि चेत्यर्थः / पटुतरं च श्रोतृविज्ञानम् / गन्धादिद्रव्याणि तु विपरीतानि स्तोक-बादरा-ऽभावुकानि यतः, अतस्तानि स्पर्शानन्तरमात्मप्रदेशैमिश्रीकृतानि स्पृष्ट-बद्धानि गृह्यन्ते घ्राणादिभिः; पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकरणानि // इति गाथात्रयार्थः // 337-339 / / अथ 'रूवं पुण पासइ अपुढे तु' इत्यत्रोपपत्तिमाहअप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं / आयंगुलेण लक्खं अइरित्तं जोयणाणं तु // 340 // प्रागुक्तयुक्त्या अप्राप्तकारि-अप्राप्तस्यैव वस्तुनः परिच्छेदकारि यतो नयनं, मनश्च; ततोऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् / ननु यद्यप्राप्त रूपमेतत् पश्यति, तर्हि लोकान्तादर्वाग् यदस्ति तत् सर्वं