________________ विभाग-२ भवन्ति, रविरश्मिषु तथादर्शनात् // तदेतदयुक्ततरम्, तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात्, तथा-विधानामप्यस्तित्वकल्पनेऽतिप्रसङ्गात् / वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति विकल्प्यन्त इति चेत् / न, तानन्तरेणाऽपि तत्परिच्छेदोपपत्तेः, न हि मनसो रश्मयः सन्ति; न च तदप्राप्तं वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य तत्सिद्धेः / न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीररश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् / इत्यलं विस्तरेण // इति गाथार्थः // 211 // तदेवमञ्जनज्वलनादिविषयविहितानुग्रहोपघातशून्यत्वलक्षणहेतोरप्राप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य तां प्रसाधयितुमाह जइ पत्तं गेण्हेज्ज उ, तग्गयमंजण-रओ-मलाईयं / पेच्छेज्ज, जं न पासइ अपत्तकार तओ चक्टुं // 212 // यदि तु प्राप्तं विषयं चक्षुर्गृह्णीयादित्युच्यते, तदा तद्गतमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत्, तस्य निर्विवादमेव तत्प्राप्तत्वेनोपलब्धेः; यस्माच्च तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् / यद्यप्राप्यकारि चक्षुः, तश्प्राप्तत्वाविशेषात् सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहकं स्यात्, न प्रतिनियतस्येति चेत् / न, ज्ञानदर्शनावरणादेस्तत्प्रतिबन्धकस्य सद्भावात्, मनसा व्यभिचाराच्च, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टाऽ श्रुतार्थेषु तत्प्रवृत्त्यदर्शनात् / इत्यलं प्रसङ्गेन // इति गाथार्थः // 212 // ___ तदेवं व्यवस्थापिता चक्षुषोऽप्राप्यकारिता / कया पुनर्गाथया नियुक्तिकृताऽसौ भण्यते ?, इत्याहपुढे सुणेइ सदं त्वं पुण पासइ अपुटुं तु / गंधं रसं च फासं च बद्धपुटुं वियागरे // 336 // श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति / कथंभूतम् ?, इत्याह-स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः / इदमुक्तं भवति स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणेन्द्रियविषयभूतद्रव्येभ्यस्तानि सूक्ष्माणि, बहूनि, भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति / श्रोत्रेन्द्रियस्य चेह कर्तृत्वं शब्दश्रवणान्यथानुपपत्तेर्लभ्यते / एवं घ्राणेन्द्रियादिष्वपि वाच्यम् / तानि पुनः कथं गन्धादिकं गृह्णन्ति ?, इत्याह-गन्ध्यत इति गन्धस्तमुपलभते घ्राणेन्द्रियम्, रस्यत इति रसस्तं च गृह्णाति रसनेन्द्रियम्, स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् / कथम्भूतं गन्धादिकम् ?, इत्याह-बद्धस्पृष्टम् / तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतमित्यर्थः / ततश्च गन्धादिद्रव्यसमूहं प्रथमं स्पृष्टमालिङ्गितम्, ततश्च