________________ सन्दर्भग्रन्थाः सौम्यं शीतलं शीतरश्मि वा जलघृतचन्द्रादिकं वस्तु, तस्मिंश्चिरमवलोकिते उवघाताभावादनुग्रहमिव मन्येत चक्षुः, 'को दोषः ?' इत्यत्राऽपि संबध्यते, न कश्चिदित्यर्थः // इति गाथार्थः // 210 // आह-यद्युक्तन्यायेनोपघातकाऽनुग्राहकवस्तुन्युपघाताऽनुग्रहाभावं चक्षुषो न ब्रूषे, तर्हि यद् ब्रूषे तत् कथय, इत्याशक्याह गंतुं न स्वदेसं पासइ पत्तं सयं व नियमोऽयं / पत्तेण उ मुत्तिमया उवघाया-णुग्गहा होज्जा // 211 // अयं नियम:इदमेवाऽस्माभिर्नियम्यत इत्यर्थः / किं तत् ?, इत्याह रूपस्य देशो रूपदेश आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वोत्प्लवनतस्तं समाश्लिष्य चक्षुर्न पश्यति न परिच्छिनत्ति, अन्यस्याऽश्रुतत्वाद् 'रूपम्' इति गम्यते / 'पत्तं सयं व त्ति' स्वयं वाऽन्यत आगत्य चक्षुर्देशं प्राप्त समागतं रूपं चक्षुर्न पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यति // अत्राह पर नन्वनेन नियमेनाऽप्राप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति / न च प्रतिज्ञामात्रेणैव हेतूपन्यासमन्तरेण समीहितवस्तुसिद्धिः / अतो हेतुरिह वक्तव्यः / 'जमणुग्गहाइसुण्णं ति' इत्यनेन पूर्वोक्तगाथावयवेन विषयकृतानुग्रहोपघातशून्यत्वलक्षणोऽयमभिहित एवेति चेत् / अहो ! जराविधुरितस्येव सूरेविस्मरणशीलता, यतो 'जमणुग्गहाइसुण्णं ति' इत्यनेन विषयादनुग्रहोपघातौ चक्षुषो निषेधयति, 'डज्जेज्ज पाविउं रविकराइणा फरिसणं व' इत्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीते, अतो न विद्मः, कोऽप्येष वचनक्रम इति / नैतदेवम्, अभिप्रायाऽपरिज्ञानात्, यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहोपघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकरादिना, चन्द्रमरीचिनीलादिना वा मूर्तिमता निसर्गत एव केनाऽप्युपघातकेन, अनुग्राहकेण च विषयेणोपघाताऽनुग्रहौं भवेतामपीति / एतदेवाह-'पत्तेण उ मुत्तिमयेत्यादि' अनेनाऽभिप्रायेण तौ पुनरपि समनुज्ञायेते, न पुनविस्मरणशीलतया / यदि पुनर्विषयपरिच्छित्तिमात्रमपि तमप्राप्य चक्षुर्न करोतीति नियम्यते, तदा वह्नि-विष-जलधि-कण्टक-करवाल-करपत्र-सौवीराञ्जनादिपरिच्छित्तावपि तस्य दाह-स्फोटक्लेद-पाटन-नीरोगतादिलक्षणोपघाता-ऽनुग्रहप्रसङ्गः / न हि समानायामपि प्राप्तौ रवि-करादिना तस्य भवन्ति दाहादयः, न वढ्यादिभिः / तस्माद् व्यवस्थितमिदम् विषयमप्राप्यैव चक्षुः परिच्छिनत्ति, अञ्जनदहनादिकृताऽनुग्रहोपघातशून्यत्वात्, मनोवत् / परिच्छेदानन्तरं तु पश्चात्प्राप्तेन केनाऽप्युपघातकेन, अनुग्राहकेण वा मूर्तिमता द्रव्येण तस्योपघाताऽनुग्रहौ न निषिध्येते, विषशर्करादिभक्षणे मूर्छास्वास्थ्यादय इव मनस इति // अत्राऽपरः प्राह-नयनाद् नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता प्रोच्यते / सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न