________________ विभाग-२ . द निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कश्चिद्दोषः, तदपि न मनोरमं, महाज्वालादौ प्रतिस्खलनोपलब्धेः, तस्मादप्राप्यकारित्वं चक्षुषः / // विशेषावश्यकभाष्य टीका // तदेवं स्पर्शन-रसन-घ्राण श्रोत्राणां प्राप्यकारित्वं समर्थितम्: सांप्रतं 'नयण-मणोवजिदियभेयाओ' इत्यादिना सूचितं नयन-मनसोरप्राप्यकारित्वमभिधित्सुर्नयनस्य तावदाह लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति / जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया // 209 // अप्राप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम्, अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा / कुतः ?, इत्याह-यद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रह:ग्राह्यवस्तुकृतानुग्रहोपघातशून्यत्वादित्यर्थः, अयं च हेतुः / मनोवदिति दृष्टान्तः / यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात्, तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहाद्युपघातः स्यात्; कोमलतुल्याद्यवलोकने त्वनुग्रहो भवेत्, न चैवम्, तस्मादप्राप्यकारि लोचनमिति भावः / मनस्यप्राप्यकारित्वं परस्याऽसिद्धम्, इति कथं तस्य दृष्टान्तत्वेनोपन्यासः? इति चेत् / सत्यम्, किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम्, इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम्, इत्यदोषः / अथ परो हेतोरसिद्धतामुद्भावयन्नाह-'जल-सूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंबध्यते / ततश्च जलादीनामालोके लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति / अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः / इदमुक्तं भवति-जल-घृत-नीलबसन-वनस्पती-न्दुमण्डलाद्यवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रह: समीक्ष्यते; सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघात: संदृश्यत इति / अत: किमुच्यते-'जमणुग्गहाइसुण्णं ति' ? // इति गाथार्थः // 209 // अत्रोत्तरमाहडज्जेज्ज पाविउं रविकराइणा फरिसणं व को दोसो ? / मणेज्ज अणुग्गहं पिव उवघायाभावओ सोम्मं // 210 // अयमत्र भावार्थ:अस्मदभिप्रायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुतचक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहोपाघातौ न भवतः / ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुश्चक्षुः प्राप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येतदाहादिलक्षणस्तस्योपघातः क्रियतेत्यर्थः / एतावता चाऽप्राप्यकारिचक्षुर्वादिनामस्माकं को दोषः ? न कश्चित्, दृष्टस्य बाधितुमशक्यत्वादिति भावः / तथा यत् स्वरूपेणैव