________________ 60 सन्दर्भग्रन्थाः विषयकृतानुग्रहोपघातासम्भवेऽपि तत्परिच्छेदभावात्, प्राप्तेन तूपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपाददते, नात्र विसंवादः, ततस्ते चक्षुः सम्प्राप्ताः सन्तः स्पर्शनेन्द्रियमिव चक्षुरप्युपघ्नन्ति, शीतांशुरश्मयस्तु स्वभावत एव शीतलत्वादनुग्राहकाः ततस्ते चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्घलजलावलोकेन च जलकणसम्पृक्तसमीरणावयवसंस्पर्शतोऽनुग्रहः, शाड्वलतरुमण्डलावलोकनेऽपि शाड्वलतरुच्छायासम्पर्कशीतीभूतसमीरसंस्पर्शात्, शेषकालं तु जलाधवलोकनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानो, यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा सम्पर्के यथा सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्ति ?, अपिच-यदि चक्षुः प्राप्यकारि तहि स्वदेशगतं रजोमलाञ्जनादि किं न पश्यति ?, तस्मादप्राप्यकार्येव चक्षुः, ननु यदि चक्षुरप्राप्यकारि तहि कस्मादविशेषेण सर्वानप्यर्थान् न गृह्णाति, यदि हि प्राप्तं परिच्छिन्द्यात् तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशस्थं वा, तत्र नयनरश्मीनां गमनासम्भवात् संपर्काभावात्, ततो युज्येत चक्षुषो ग्रहणाग्रहणे नान्यथा, तथा चोक्तम्-"प्राप्यकारि चक्षुः उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् दूरेतरापेक्षणाच्च, यदि हि चक्षुरप्राप्यकारि भवेत् तदा आवरणभावादनुपलब्धिरन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थं, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातादुपपत्तिमान् तथा व्याघातः, अतिदूरे च गमनाभावादिति," प्रयोगश्चात्र-न चक्षुषो विषयपरिमाणमप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, ततो यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वान्नियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वात् योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति, अपिचदृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषात् योग्यदेशापेक्षणं, यथा अयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्षणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वतिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, अथ मन्येथा अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वान्नोपलभ्यन्ते, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्राहकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति तद्ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संसर्गपूर्वकं यथाऽयोगोलकस्य संदंशेन, चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्तेन संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदेतद्बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात्, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, नच तत्र कोऽपि संसर्ग इति // अन्यस्त्वाहअस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं, तदप्ययुक्तं, अत्रापि हेतोरनेकान्तिकत्वात्, काचाभ्रस्फटिकैर्व्यवहितस्याप्युपलब्धेः, अथेदमाचक्षीथाः नायना रश्मयो