________________ विभाग-२ 59 कस्माच्चक्षुरादीनि रूपादिकमर्थं न गृह्णन्तीति, उच्यते, सामर्थ्याभावात्, द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, मनसस्तु न क्षेत्रतो विषयपरिमाणमस्ति, पुद्गलमात्रनिबन्धनाभावात्, इह यत् पुद्गलमात्रनिबन्धनियतं न भवति, न तस्य विषयपरिमाणमस्ति, यथा केवलज्ञानस्य, यस्य च विषयपरिमाणमस्ति, तत्पुद्गलमात्रनिबन्धनियतं दृष्टं, यथाऽवधिज्ञानं मनःपर्यायज्ञानं वेति गाथासमासार्थः / / साम्प्रतं यदुक्तमासीत् यथा "नयनमनसोरप्राप्तकारित्वं 'पुढे सुणेइ सई' इत्यत्र वक्ष्यामः, तदुच्यते, नयनं योग्यदेशावस्थिताप्राप्तविषयपरिच्छेदकं, प्राप्तिनिबन्धनतत्कृतानुग्रहोपघातशून्यत्वात्, मनोवत्, स्पर्शनेन्द्रियं विपक्ष इति / आहजलघृतवनस्पत्यालोकनेष्वनुग्रहसद्भावात् सूर्याद्यालोकनेषु चोपघातसद्भावात् असिद्धो हेतुः, मनसोऽपि प्राप्तविषय-परिच्छेदकत्वात्साध्यविकलो दृष्टान्तः, तथा च लोके वक्तारो भवन्ति-"अमुत्र मे गतं मनः" इति, अत्रोच्यते, प्राप्तिनिबन्धनाख्यहेतुविशेषणार्थनिराकृतत्वाद् अस्याक्षेपस्येत्यदोषः / किं च-यदि हि प्राप्तिनिबन्धनौ विषयकृतावनुग्रहोपघातौ स्यातां, एवं तर्हि अग्निशूल जलाद्यालोकनेषु दाहभेदक्लेदादयः स्युरिति / किं च-प्राप्तविषयपरिच्छेदकत्वे सति अक्षि-अञ्जनमलशलाकादिकमपि गृह्णीयात् / आह नायना मरीचयो निर्गत्य तमर्थं गृह्णन्ति, ततश्च तेषां तैजसत्वात् सूक्ष्मत्वाच्चानलादिसम्पर्के सत्यपि दाहाद्यभाव इति, अत्रोच्यते, प्राक् प्रतिज्ञातयोरनुग्रहोपघातयोरप्यभावप्रसङ्गाद् अयुक्तमेतत्, तदस्तित्वस्य उपपत्त्या ग्रहीतुमशक्यत्वाच्च / व्यवहितार्थानुपलब्ध्या तदस्तित्वावसाय इति चेत्, न, तत्रापि तदुपलब्धौ क्षयोपशमाभावात् व्यवहितार्थानुपलब्धिसिद्धेः, आगममात्रमेवैतत् इति चेत्, न, युक्तिरप्यस्ति, आवरणाभावेऽपि परमाण्वादौ दर्शनाभावः, स च तद्विधक्षयोपशमकृतः / // आवश्यकसूत्र मलयगीरिवृत्ति // . __स च चतुर्विधस्तद्यथाश्रोत्रेन्द्रियव्यञ्जनावग्रहः घ्राणेन्द्रियव्यञ्जनावग्रह: जिह्वेन्द्रियव्यञ्जनावग्रहः स्पर्शनेन्द्रियव्यञ्जनावग्रहश्च, ननु सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधः ?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिपरिणतद्रव्याणां परस्परं सम्बन्ध उच्यते, सम्बन्धश्च चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात्, कथमप्राप्यकारितेति चेत्, उच्यते, विषयकृतानुग्रहोपघाताभावात्, यदि पुनः प्राप्तमर्थं चक्षुर्मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेन्द्रियं स्त्रक्चन्दनादिकमङ्गारादिकं वा प्राप्तमर्थं परिच्छिन्दत्तत्कृतानुग्रहोपघातभाग् भवति, तथा चक्षुर्मनसी अपि भवेतां, न च भवतस्तस्मादप्राप्यकारिणी ते इति, ननु दृश्येते चक्षुषोऽनुग्रहोपघातौ, तथाहिजरठकरप्रसरमभिसर्पयन्तमंशुमालिनं चिरं विलोकमानस्य भवति चक्षुषो विघातः, शशाङ्ककरनिकरं तरङ्गमालोपशोभितं जलं शाड्वलतरुमण्डलं वाऽवलोकमानस्यानुग्रहः, तदेतज्जाड्यविलसितं, यतो न वयं ब्रूमः सर्वथा चक्षुषोऽनुग्रहोपघातौ न भवतः, किन्तु विषयमप्राप्तं चक्षुर्गृहणातीत्येवाभिदध्महे,