________________ 56 सन्दर्भग्रन्थाः ऽयस्कान्तस्य, न खल्वयस्कान्तोऽयसोऽप्राप्यकर्षणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वर्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु)शङ्करस्वामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी, अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धभावात्, केवलं ते छायाणवः सूक्ष्मत्वानोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपितं, तद्ग्राहकप्रमाणाभावात्, न हि तत्र छायाणुसम्भवग्राहकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षणं चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षबाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि बालिशजल्पितं, हेतोरनैकान्तिकत्वात्, मन्त्रेण व्यभिचारात्, तथाहि-मन्त्रः स्मर्यमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपि च-यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काष्ठादिकमपि प्राप्तं कस्मानाकर्षन्ति ?, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थं छायाणुपरिकल्पनम् / अन्यस्त्वाहअस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलब्धिरनुमानं प्रमाणं, तदयुक्तं, अत्रापि हेतोरनैकान्तिकत्वात्, काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः, अथेदमाचक्षीथा:नायना रश्मयो निर्गत्य तमर्थं गृह्णन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते ततो न कश्चिद्दोषः, तदपि न मनोरमं, महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारि चक्षुरिति स्थितं / नन्दिसूत्र अवचूरि से किं तमित्यादि / अथ किं तत् श्रुतनिश्रितं मतिज्ञानं ?, गुरू: आह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तं, तद्यथा-अवग्रहईहा-अपायो-धारणा च, तत्र अवग्रहणं अवग्रहः, अनिर्देश्यसामान्यमात्ररूपार्थग्रहणं इत्यर्थः / तथा ईहनं ईहा, सद्भूतार्थपयोलोचनरूपा चेष्टा इत्यर्थः / कि उक्तं भवति ? अवग्रहात् उत्तरकालं अपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः - 'प्रायो अत्र मधुरत्वादयः शङखादिधर्मा दृश्यन्ते खरकर्कशनिष्ठुरतादायः शादिशब्दधा इति / एवंरुपो मतिविशेष ईहा / तथा यस्य एव अवगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽपायः, शाडख एव अयं, शार्ग एव अयं, शार्ग एव अयं इत्यादिरूपोऽवधारणात्मकः प्रत्ययोऽपाय इत्यर्थः / तस्य एव अर्थस्य निर्णीतस्य धारणं धारणा, सा च त्रिधा अविच्युतिः वासना स्मृतिश्च / तत्र तदुपयोगात् अविच्यवनं अविच्युतिः, सा च अन्तर्मुहूर्तप्रमाणा / ततः तया आहितो यः संस्कारः सा वासना, सा च संख्येयमसंख्येयं वा कालं यावत् भवति / ततः कालान्तरे कुतश्चित्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यत् ज्ञानं उदयते - तदेव इदं यन्मया प्राग् उपलब्धं' इत्यादिरूपं सा स्मृतिः / उक्तं च -