________________ विभाग-२ "तदनंतरं तदत्याविच्चवणं जो उ वासणाजोगो / कालांतरे जं पुण अणुसरणं धारणा सा उ॥१॥" एताश्च अविच्युतिवासनास्मृतयो धरणलक्षणसामान्याऽन्वर्थयोगाद्धारणाशब्दवाच्याः // अथ कोऽयं अवग्रहः ?, सूरिराह - अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा - अर्थावग्रहश्च व्यञ्जनावग्रहश्च / तत्र अर्थ्यत इत्यर्थः, अर्थस्यावग्रहणं अर्थावग्रहः - सकलरुपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररुपार्थग्रहणं एकसामयिकं इत्यर्थः, तथा व्यज्यतेऽनेन अर्थः प्रदीपेनेव घट इति व्यञ्जनम् / तच्च उपकरणेन्द्रियस्य श्रोत्रादेः शब्ददिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे सति सोऽर्थः शब्दादिरुपः श्रोतादि इन्द्रियेण व्यञ्जजितुं शक्यते, न अन्यथा, ततः सम्बन्धो व्यञ्जनं / व्यञ्जनेन - सम्बन्धेन अवग्रहणं सम्बध्यमानस्य शब्दादिरुपस्यार्थस्य अव्यक्तरुपः परिच्छेदो व्यञ्जनावग्रहः / अथवा व्यज्यन्ते इति व्यञ्जनानि, “कृत् बहुलं" इति वचनात् कर्मण्यनट, सम्प्रति तु व्यञ्जनावग्रहात् ऊर्वं अर्थावग्रह इति क्रमं आश्रित्य प्रथमं व्यञ्जनावग्रहस्वरुपं प्रतिपिपादयिषुः शिष्यः प्रश्नं करोति से किं तं वंजणुग्गहे ? अथ कोऽयं व्यञ्जनावग्रहः ?, आचार्य आह - व्यञ्जनावग्रहः चतुर्विधः प्रज्ञप्तः, तद्यथा - "श्रोत्रेन्द्रियव्यञ्जनावग्रह" इत्यादि / अत्र आह - सत्सु पञ्चसु इन्द्रियेषु षष्ठे च मनसि कस्मात् अयं चतुर्विधा व्यावर्ण्यते ?, उच्यते, इह व्यञ्ज उपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते / सम्बन्धश्चतुर्णां एव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोः अप्राप्यकारित्वात् / आह - कथं, अप्राप्यकारित्वं तयोः अवसीयते ? उच्यते, विषयकृतानुग्रहोपघाताभावात् / तथाहि यदि प्राप्तं अर्थं चक्षुः मनो वा गृह्णीयात्, तर्हि यथा स्पर्शनेन्द्रिय स्त्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्नदन् तत्कृतानुग्रहोपघातभाग् भवति / तथा चक्षुः मनसी अपि भवेतां, विशेषाभावात्, न च भवतः तस्मादप्राप्यकारिणी ते / ननु दृश्यते एव चक्षुषो विषयकृतौ अनुग्रहोपघातौ / तथाहि - घनपटलविनिर्मुक्ते नभसि सर्वतो निबिडजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतं अवलोकमानस्य भवति चक्षुषो विघातः / शशाङ्ककरकदम्बकं यदि वा तरङ्गमालोपशोभितं जलं तरुमण्डलं च शाइवलं निरन्तर निरीक्ष्यमाणस्य च अनुग्रहः, तदेतदपरिभावितभाषितं / यतो न ब्रूमःसर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किं त्वेतावदेव वदामो-यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपघातौ तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यत्यनुग्राहकेण चानुग्रहः / // आवश्यक-हारिभद्रीयवृत्तिः // इत्थमवग्रहादीनां स्वरूपमभिधाय इदानीं श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराहपुढे सुणेइ सदं स्त्वं पुण पासई अपुटुं तु / गंधं रसं च फासं च बद्धपुढे वियागरे // 5 //