SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ विभाग-२ चक्षुर्मनो वा गृह्णीयात् तहि यथा स्पर्शनेन्द्रियं स्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थं परिच्छिन्दतत्कृतानुग्रहोपघातभाग् भवति तथा चक्षुर्मनसी अपि भवेताम्, विशेषाभावात्, न च भवतः तस्मादप्राप्यकारिणी ते, ननु दृश्येते एव चक्षुषोऽपि विषयकृतावनुग्रहोपघातौ, तथाहि-घनपटलविनिर्मुक्ते नभसि सर्वतो निविडजठरिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुषो विघातः, शशाङ्ककरकदम्बकं यदि वा तरङ्गमालोपशोभितं जलं तरुमण्डलं च शाड्वलं निरन्तरं निरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावितभाषितं, यतो न ब्रूमः-सर्वथा विषयकृतानुग्रहोपघातौ न भवतः, किन्त्वेतावदेव वदामो यदा विषयं विषयतया चक्षुरवलम्बते तदा तत्कृतावनुग्रहोपघातौ तस्य न भवत इति तदप्राप्यकारि, शेषकालं तु प्राप्तेनोपघातकेनोपघातो भविष्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपददाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपघ्नन्ति, शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकास्ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृह्णन्ति, तरङ्गमालासङ्खलजलावलोकने च जलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाड्वलतरुमण्डलावलोकनेऽपि शाड्वलतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात्, शेषकालं तु जलावलोकनेऽनुग्रहाभिमान उपघाताभावादवसेयः, भवति चोपघाताभावेऽनुग्रहाभिमानो यथाऽतिसूक्ष्माक्षरनिरीक्षणाद्विनिवृत्त्य यथासुखं नीलीरक्तवस्त्राद्यवलोकने, इत्थं चैतदङ्गीकर्त्तव्यं, अन्यथा समाने सम्पर्के यथा सूर्यमीक्षमाणस्य सूर्येणोपघातो भवति तथा हुतवहजलशूलाद्यालोकने दाहक्लेदपाटनादयोऽपि कस्मान्न भवन्तीति ?, अपि च-यदि चक्षुः प्राप्यकारि तर्हि स्वदेशगतरजोमलाञ्जनशिलाकादिकं किं न पश्यति?, तस्मादप्राप्यकार्येव चक्षुः / ननु यदि चक्षुरप्राप्यकारि तर्हि मनोवत्कस्मादविशेषेण सर्वानपि दूरव्यवहितादीनन् न गृह्णाति, यदि हि,प्राप्तं परिच्छिन्द्यात्तर्हि यदेवानावृतमदूरदेशं वा तदेव गृह्णीयात् नावृतं दूरदेशं वा, तत्र चक्षुरश्मीनां गमनासम्भवः सम्पर्काभावात्, ततो युज्यते चक्षुषो ग्रहणाग्रहणे, नान्यथा, तथा चोक्तम् प्राप्यकारि चक्षुः, उपलब्ध्यनुपलब्ध्योरनावरणेतराप्रेक्षणात् अदूरेतराप्रेक्षणाच्च, यदि हि चक्षुरप्राप्यकारि भवेत्तदाऽऽवरणभावादनुपलब्धिः अन्यथोपलब्धिरिति न स्यात्, न हि तदावरणमुपघातकरणसमर्थं, प्राप्यकारित्वे तु मूर्त्तद्रव्यप्रतिघातादुपपत्तिमान् व्याघातोऽतिदूरे च गमनाभावादिति, प्रयोगश्चात्र न चक्षुषो विषयपरिमाणं, अप्राप्यकारित्वात्, मनोवत्, तदेतदयुक्ततरं, दृष्टान्तस्य साध्यविकलत्वात्, न खलु मनोऽप्यशेषान् विषयान् गृह्णाति, तस्यापि सूक्ष्मेष्वागमगम्यादिष्वर्थेषु मोहदर्शनात्, तस्माद् यथा मनोऽप्राप्यकार्यपि स्वावरणक्षयोपशमसापेक्षत्वात् नियतविषयं तथा चक्षुरपि स्वावरणक्षयोपशमसापेक्षत्वादप्राप्यकार्यपि योग्यदेशावस्थितनियतविषयमिति न व्यवहितानामुपलम्भप्रसङ्गो नापि दूरदेशस्थितानामिति / अपि च-दृष्टमप्राप्यकारित्वेऽपि तथास्वभावविशेषाद्योग्यदेशांपेक्षणं, यथा
SR No.004442
Book TitleChakshurprapyakaritawad
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2009
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy