SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सन्दर्भग्रन्थाः पुढविकाइयाणं भंते ! कतिविधे उग्गहे, पं. ?, गो. ! दुविधे उग्गहे पं.-अत्थोग्गहे य वंजणोवग्गहे य / पुढविकाइयाणं भंते ! वंजणोग्गहे कतिविधे पं. ? गो. ! एगे फासिंदियवंजणोग्गहे पं. / (सूत्रं-२००) व्यञ्जनावग्रहो न नयनमनसोः, तयोरप्राप्यकारित्वात्, सा चाप्राप्यकारिता नन्द्यध्ययनटीकायां प्रदर्शितेति नेह प्रदर्श्यते, अर्थावग्रह: षड्विधः, तद्यथा-'सोइंदियअत्थुग्गहे' इत्यादि, श्रोत्रेन्द्रियेणा र्थावग्रहो व्यञ्जनावग्रहोत्तरकालमेकसामयिकमनिर्देश्यं सामान्यमात्रार्थग्रहणं श्रोत्रेन्द्रियार्थावग्रहः, एवं घ्राणजिह्वास्पर्श नेन्द्रियार्थावग्रहेष्वपि वाच्यं, चक्षुर्मनसोस्तु व्यञ्जनावग्रहो न भवति / // नन्दीसूत्र-हारिभद्रीयवृत्तिः // _ 'से किं त'मित्यादि (29-162) अथ कोऽयं व्यञ्जनावग्रह: इत्यत्र पुनरुत्पत्तिक्रम एवाश्रितो यथासम्भवमिति सुश्लिष्टमेतदिति, प्रकृतमुच्यतेव्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रियव्यञ्जनावग्रह: इत्यादि सूत्रसिद्धम् / आह-पञ्चेन्द्रियमनःसद्भावे सति किमित्ययं चतुर्विध इति ?, अत्रोच्यते, नयनमनसोरप्राप्तकारित्वाद्, अप्राप्तकारित्वं च विषयकृतानुग्रहोपघातशून्यत्वात्, प्राप्तकारित्वे पुनरनलजलशूलाद्यालोकने. दहनक्लेदनपाटनादयः स्युः, अत्र च विषयदेशं गत्वा न पश्यति, प्राप्तं चार्थं नालम्बत इत्येतावनियम्यते, मूर्तिमता पुनः प्राप्तेन भवत एवानुग्रहोपघातौ भास्करकिरणादिनेति, अन्यस्त्वाहव्यवहितार्थानुपलब्धेरनुमानात् प्राप्तकारित्वं लोचनस्येति, एतदयुक्तं, नैकान्तिकत्वाद्, काचाऽभ्रपटलस्फटिकान्तरितोपलब्धेः, स्यादेतत्नायना रश्मयो निर्गत्यतमर्थं गृह्णन्तीति दर्शने रश्मीनां तैजसत्वात्, तेजोद्रव्यैरप्रतिस्खलनाददोष इति, एतदप्ययुक्तं, महाज्वालादौ प्रतिस्खलनोपलब्धेरित्यत्र बहु वक्तव्यम् तत्तु नोच्यते ग्रन्थविस्तरभयाद् गमनिकामात्रमेतदिति / ... // श्रीमलयगिरीयानन्दीवृत्तिः // सम्प्रति तु व्यञ्जनावग्रहादूर्ध्वमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यः प्रश्नं कारयति से किं तं वंजणुग्गहे ?, वंजणुग्गहे चउव्विहे पण्णत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिभिदियवंजणुग्गहे फासिंदिअवंजणुग्गहे / से तं वंजणुग्गहे 29 _ 'से किं तमि'त्यादि, अथ कोऽयं व्यञ्जनावग्रह: ?, आचार्य आह-व्यञ्जनावग्रहश्चतुर्विधः प्रज्ञप्तः, तद्यथा-'श्रोत्रेन्द्रियव्यञ्जनावग्रह' इत्यादि, अत्राह-सत्सु पञ्चस्विन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धश्चतुर्णामेव श्रोत्रेन्द्रियादीनां, न नयनमनसोः, तयोरप्राप्यकारित्वात्, आहकथमप्राप्यकारित्वं तयोरवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात्, तथाहि-यदि प्राप्तमर्थं
SR No.004442
Book TitleChakshurprapyakaritawad
Original Sutra AuthorN/A
AuthorPunyapalsuri
PublisherParshwabhyuday Prakashan
Publication Year2009
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy