________________ विभाग-२ // प्रज्ञापना मलयगिरिवृत्तिः // पुट्ठाइं मंते ! सद्दाइं सुणेति अपुट्ठाइं सद्दाइं सुणेति ?, गो. ! पुट्ठाइं सद्दाइं सुणेति नो अपुट्ठाइं सद्दाई सुणेति, पुट्ठाइं भंते ! रूवाइं पासति अपुट्ठाई पासति?, गो. ! नो पुट्ठाइं पासति, अपुट्ठाई रूवाइं पासति, (सूत्रं 194) 'पुट्ठाइं भंते ! सद्दाइं सुणेति' इत्यादि, प्राकृतत्वात् सूत्रे शब्दस्य नपुंसकत्वं, अन्यथा पुंस्त्वं प्रतिपत्तव्यं, स्पृष्टान् भदन्त ! श्रोत्रेन्द्रियमिति कर्तृपदं सामर्थ्याल्लभ्यते शब्दान् शृणोति, तत्र स्पृश्यन्ते इति स्पृष्टास्तान् तनौ रेणुमिवालिङ्गितमात्रानित्यर्थः, 'पुढे रेणुं व तणुंमि' (स्पृष्टं तनौ रेणुरिव) इति वचनात्, शब्द्यन्तेप्रतिपाद्यन्ते अर्थाएभिरिति शब्दाः तान् शृणोति गृह्णाति उपलभते इतियावत्, किमुक्तं भवति ?-स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रेन्द्रियमुपलभते, न. तु घ्राणेन्द्रियादिवत् बद्धस्पृष्टानीति, कस्मादिति चेत्, उच्यते, इह शब्दद्रव्याणि घ्राणेन्द्रियादिविषयभूतेभ्यो द्रव्येभ्यः सूक्ष्माणि तथा बहूनि तथा तत्क्षेत्रभाविशब्दयोग्यद्रव्यवासकानि च, ततः सूक्ष्मत्वादतिप्रभूतत्वात्तदन्यद्रव्यवासकत्वाच्चात्मप्रदेशैः स्पृष्टमात्राण्यपि निर्वृतीन्द्रियमध्ये प्रविश्य झटित्युपकरणेन्द्रियमभिव्यञ्जयन्ति, श्रोत्रेन्द्रियं च घ्राणेन्द्रियाद्यपेक्षया स्वविषयपरिच्छेदे पटुतरं, ततः स्पृष्टमात्राण्यपि तानि श्रोत्रेन्द्रियमुपलभते, नास्पृष्टान् सर्वथाऽऽत्मप्रदेशैः सम्बन्धमप्राप्तान्, श्रोत्रेन्द्रियस्य प्राप्तविषयपरिच्छेदस्वभावत्वात्, यथा च श्रोत्रेन्द्रियस्य प्राप्तकारिता तथा नन्द्यध्ययनटीकादौ चर्चितमिति ततोऽवधाएँ, 'पुट्ठाइं भंते ! रूवाई' इत्यादि सुगम, निर्वचनमाहगौतम ! न स्पृष्टानि रूपाणि पश्यति चक्षुः किन्त्वस्पृष्टानि, चक्षुषो. ऽप्राप्तकारित्वात्, तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयम् / वंजणोग्गहे णं भंते ! कतिविधे पं. ?, गो. ! चउव्विधे पं., तं.-सोतिदियवंजणोग्गहे घाणिंदियवंजणोग्गहे जिब्भिदियवंजणोग्गहे फासिंदियवं. / अत्थोग्गहे णं भंते ! कतिविधे पं. ?, गो. ! छव्विहे पं., तं.-सोतिंदियअत्थोवग्गहे चक्खिदियअ. जिभिदियअ. फासिदियअ. नोइंदियअत्थो. / नेइयाणं भंते ! कतिविहे उग्गहे पण्णत्ते ?, गो. ! दुविहे पं., तं.-अत्थोग्गहे य वंजणोग्गहे य, एवं असुरकुमाराणं जाव थणियकुमाराणं /