________________ सन्दर्भग्रन्थाः हेतुत्वमनतिप्रयोजनं, चाक्षुषत्वावच्छिन्नं चक्षुराभिमुख्यस्यैकस्यैव प्रत्यासत्तिस्थानेऽभिषेकौचित्यादित्यस्मत्सम्प्रदायानुगतो नवीनः पन्थाः / ___एतेन घटाकाशसंयोगादेविशिष्यायोग्यत्वकल्पनपरिहाराय व्यासज्यवृत्तिधर्मप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वं कल्पनीयम्, तत्र कारणतावच्छेदकं कार्यतावच्छेदकं पर्याप्तिमत्त्वमेव, कारणतावच्छेदकतावच्छेदक: सम्बन्धः स्वावच्छिन्नाधारतावच्चाक्षुषत्वं, कारणतावच्छेदकः स्वविषयवृत्तिता, कार्यतावच्छेदकतावच्छेदकः स्वावच्छिन्नाधेयतावच्चाक्षुषत्वं, कार्यतावच्छेदकः सम्बन्धो विशेष्यतेति नाननुगम इत्यादि नवीनतरोक्तमपि अपास्तं, सति क्षयोपशमविशेषे यावदाश्रयप्रत्यक्षोत्पत्तिकाल एव द्वित्वसंयोगादिप्रत्यक्षोपगमेन तस्य तद्धेतुत्वे मानाभावाद् द्रव्यजात्यन्यचाक्षुषे चाक्षुषान्यसमवेतत्वस्य प्रतिबन्धकत्वेनैव घटाकाशसंयोगादिप्रत्यक्षत्वोपपत्तेः / इत्थमेव क्रमिकद्वित्रिपदार्थगतद्वित्वत्रित्वादिप्रत्यक्षस्यैकत्वद्वयंप्रत्यक्षोत्पत्तिकाले द्वित्वादिप्रत्यक्षस्य चोपपत्तिः / किञ्च संयोगत्वादिना पर्याप्तिमत्प्रत्यक्षे न यावदाश्रयप्रत्यक्षं हेतुः, किन्तु घटादिप्रकारकसंयोगादिप्रत्यक्षे, तत्र च विशेषणतावच्छेदकप्रकारकज्ञानमुद्रयैव घटदिज्ञानस्य हेतुत्वान्न यावदाश्रयप्रत्यक्षत्वेन हेतुत्वम्, अन्यथा घटपटोभयाभावप्रत्यक्षादौ यावत्प्रतियोगिज्ञानत्वेनापि हेतुतापत्तेरिति विना क्षयोपशमानुसरणं न कुत्राप्युपपत्तिरिति दृढतरमनुसन्धेयम्, अधिकमस्मत्कृतस्याद्वादरहस्यस्याद्वादकल्पलतादौ / तत्सिद्धमेतत् प्रतिबन्धककर्मक्षयोपशमक्षयलक्षणैव प्रत्यक्षजननयोग्यतेति। // प्रमेयमाला // विशिष्टादृष्टोपगृहीतं गोलकमेवास्तु चक्षुरिन्द्रियम्, कर्णशष्कुलीवत् / न च व्यवहितोपलम्भापत्तिरयोग्योत्वेनैव तदग्रहाद् / अथ व्यवहितस्यापि न स्वरूपायोग्यत्वम्, स्थैर्यपक्षे तस्यैव कालान्तरे ग्रहात्, क्षणिकत्वपक्षेऽपि प्रत्यासन्नानां सहकारिणामेवेन्द्रियातिशयजनकत्वेन योग्यता वाच्यानां प्रत्यासन्नानाम् / प्रत्यासत्तिश्च बौद्धानां निरन्तरोत्पादोऽस्माकं द्रव्ययोः संयोगस्तदुभयमपि कृष्णसारस्यार्थेन न सम्भवतीति चेन्न, योग्यदेशावस्थितस्यैव ग्राह्यत्वाद् व्यवहितानुपलम्भाभ्युपगमादन्यथा महानिलेरितवस्त्वग्रहप्रसङ्गः / पवनेन तेजसा दूरमपनयनात् तेजोभेदेनैवमिति चेन्न कराभ्यामप्यनावरणापत्तेः / कराभ्यां वारणीयमपि काण्डादिवायुना न प्रतिबध्यत इत्यनैकान्तिकमिति चेन्न, तथापि करप्रतिबद्धगतिकवाते मन्दं गच्छतीति नियमाद् वातेन चक्षुषो वेगमान्द्यप्रसङ्गान्न च तथेष्यते, यावद्रं हि निर्वाते याति काण्डादि न तावदूरं वायावित्यस्ति चक्षुस्तु वातनिर्वातयोरुभयत्र तुल्यगम्यैवेति / शाखाचन्द्रमसोः समसमयवेदनाच्च न चक्षुरतिरिक्तम् / न च तद् भ्रान्तं बाधकाभावादेवं रसनादिकमप्यतीन्द्रियमपास्तमिति चेन्न, देशयोग्यताया अपि स्वरूपभेदेना