________________ विभाग-१ व्यवस्थितेरावरककुड्यादेश्चक्षुःप्राप्तिविघातकतयैव विरोधित्वेन विषयप्राप्तिमदतीन्द्रियचक्षुःसिद्धेः / न च तत्तद्भित्तेः स्वप्राच्यादिस्थपुरुषसाक्षात्कारे स्वप्रतीच्यादिवतित्वसम्बन्धेन प्रतिबन्धकत्वकल्पनं युक्तम्, गौरवात् / न च भित्त्यादेश्चक्षुःसंयोगप्रतिबन्धकत्वं त्वया वाच्यमिति चाषुक्षप्रतिबन्धकत्वमेव युक्तमिति वाच्यम्, तत्तत् क्रिया तत्तदुत्तरदेशानां तत्तत्संयोगहेतुत्वेनानतिप्रसङ्गेन भित्त्यादेः संयोगप्रतिबन्धकत्वाकल्पनात् / पवनेरितवस्तुसङ्ग्रहस्तु चक्षुषोऽतिशयितवेगवत्त्वेनाप्रतिबन्धादुपपद्यते / अत एव शाखाचन्द्रग्रहयौगपद्यस्य भ्रान्तत्वं वेगविशेषादेव तत्र गतिभेदानुपलक्षणाद् यत्काले चन्द्रेण संयुक्तं चक्षुस्तत्काले शाखयाऽपीति तुल्यकालग्रहणोपपत्तिर्न चाग्रावच्छेदेनैव चक्षुःसंयोगो ग्राहकोऽन्यथा मूलावच्छेदेन गोलकस्य नित्यसम्बन्धात् तद्ग्रहापत्तिरिति नोक्तोपपत्तिरिति वाच्यम् / . तिर्यग्भूतेन चक्षुषाऽग्रावच्छेदेन द्वयोः सम्प्रयोगसम्भवादित्यप्याहुः / न चैवं नयनस्य प्राप्यकारित्वे उन्मील्य निमीलितनयनस्यापि साक्षात्कारापत्तिः, गोलकसन्निकृष्टेन्द्रियविषयसंयोगे सति ज्ञानजनकत्वोपगमाद् / अथ निमीलनेन मूलतो नयननाशेऽन्धत्वापत्तिरन्तर्बहिर्भूतनयनावयवैः खण्डखण्डनयनारम्भाभ्युपगमेऽपि मुहुर्मुहुर्निमीलनोन्मीलनाभ्यां नि:शेषनयनभागरिक्ततायां तदापत्तितादवस्थ्यमेव, पिधानेन प्रदीपप्रभाया इव निमीलनेन सकलनयनावयवानामन्तः पिण्डीभावाभ्युपगमे चोन्मील्य निमीलने सति विषयेन्द्रियसंयोगाभावादेव न साक्षात्कार इति किमिन्द्रियस्य गोलकसन्निकृष्टत्वानुधावनेनेति चेन्न, प्रदीपप्रभावन्निमीलनेन नयनस्यान्तरुपसंग्रहे पक्ष्मपर्यन्तमन्तः प्रकाशापत्ते. निमीलनेन पूर्वचक्षुर्नाशस्योन्मीलनेन च चक्षुरन्तरोत्पादस्यैवाभ्युपगमान् निमीलनेऽपि चक्षुःसन्तानानुवर्त्तकादृष्टानिवृत्तेरेवान्ध्याप्रसङ्गादिति / उन्मीलनस्येव चिकित्साया अपि गोलकसन्निकृष्टनयनविशेषजननादेवोपयोग इति बहिर्वृत्तिनयनाभ्युपगमे चिकित्साप्रयोगवैफल्यशङ्कापि निरस्ता द्रष्टव्येत्थं च यदुच्यते दिङ्नागेन सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च / / अधिष्ठानाद् बहिर्नाक्षं चिकित्सादिप्रयोगतः // 1 // सत्यप्यक्ष बहिर्भावे न शक्तिविषयेक्षणे / यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् // 2 // इत्यादि तत् सर्वं प्रत्याख्यातमिति दिग् /