________________ विभाग-१ किञ्चेन्द्रियप्रत्यासत्तेरपि क्षयोपशमाधायकतयैव प्रत्यक्षहेतुता वाच्या, असङ्ख्येयसमयप्रविष्टानामेव पुद्गलानां ग्रहणयोग्यतायाः पारमर्षेऽभिधानात्, सकृत्सम्बन्धे बोधाननुभवेन तस्य च यौक्तिकत्वादसङ्ख्येयैश्च समयैः क्षयोपशमपुष्टरेव सिद्धेः / तथा च योग्येन्द्रियविषयसम्बन्धानकामेनापि क्षयोपशमहेतुत्वेनानुगमय्य प्रत्यक्षहेतुतां वदता विलक्षणक्षयोपशमत्वेनैव हेतुतायां किं लाघवं नोद्वीक्ष्यते ? / एतेन तुरगादौ वेगेन गच्छतो युगपदनेकवृक्षसन्निकर्षेऽपि क्वचिदेव प्रतिनियतधर्मप्रकारकग्रहो नान्यत्रेति नियमाय चक्षुःसन्निकर्षविषयमाहात्म्यादीनां विशेष्यग्रहसामग्रीत्वेनानुगतानां हेतुत्वमित्यपि व्याख्यातम् / तत्रौपधायकतासम्बन्धेन विलक्षणक्षयोपशमवत्त्वस्यैव सामग्रीपदार्थत्वात्, तस्या यावत्कारणरूपत्वेऽतीतानागतकतिपयचक्षुःसन्निकर्षाभावे चाक्षुषानुपपत्तेः / एतेनैव तद्व्यक्तिविषयकचाक्षुषे तद्व्यक्तिचक्षुःसंयोगत्वेनैव व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन कारणता कल्प्यते तत एव तद्व्यक्तिवृत्तिगुणकर्माभावचाक्षुषनिर्वाहाच्चक्षुःसंयुक्तसमवायादिप्रत्यासत्त्यकल्पनशलाघवादिति नवीननैयायिकोक्तमपि अपास्तं, सामान्यलक्षणादिप्रत्यासत्त्या सन्निकृष्टतद्व्यक्तिविषयकप्रत्यक्षवारणाय तद्व्यक्तिनिष्ठलौकिकविषयताशालित्वस्य कार्यतावच्छेदककोटावावश्यनिवेशनीयतया तद्व्यक्तिनिष्ठायास्तद्गतगुणकर्माभावादिनिष्ठायाश्च लौकिकविषयताया नियमाय तव प्रत्यासत्तिविशेषस्य मम तत्स्थाने क्षयोपशमविशेषस्य च हेतुताया आवश्यकत्वात्। किञ्च व्यासज्यवृत्तिधर्मस्य घटाकाशसंयोगादेर्गुरुत्वादिवदयोग्यत्वादेव न प्रत्यक्षं, चक्षुःसंयुक्ततदसंयुक्तघटपटसंयोगाप्रत्यक्षत्वस्य तु नोक्तकार्यकारणभावादपि निर्वाहः / संयोगादिप्रत्यक्षस्य यावदाश्रयविषयकत्वनियमोक्तावपि परस्परानवच्छेदकावच्छेदेन घटचक्षुःसंयोगपटचक्षुःसंयोगोभयसत्त्वे घटपटसंयोगादिप्रत्यक्षापत्तेर्दुरित्वात्, स्वावच्छेदकावच्छिन्नघटवृत्तिपटसंयोगावच्छेदका. वच्छिन्नत्वसम्बन्धेन घटचक्षुःसंयोगविशिष्टपटचक्षुःसंयोगत्वादिना तद्धेतुत्वे तु विनिगमनाविरहादनन्तकार्यकारणभावापत्तेश्च महागौरवम् / तस्माद् द्रव्यसमवेताव्याप्यवृत्तिप्रत्यक्षे व्याप्यवृत्तेरप्यवच्छेदकस्वीकारे वा द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्न एव चक्षुःसंयोगावच्छेदकावच्छिन्नसमवाय. सम्बन्धावच्छिन्नाधारतानिरूपकत्वस्य प्रत्यासत्तित्वं परस्य वक्तुमुचितमिति यत्किञ्चिदेतत् / / ___ वस्तुतो द्रव्यविषयचाक्षुषसामग्रयैव न तवृत्तिगुणकर्माभावप्रत्यक्षनिर्वाहो, द्रव्याविषयकस्यापि परमाणुवाय्वोर्महत्त्वरूपाभावचाक्षुषस्य परैरभ्युपगमात्तद्वत्तादृशरूपादिचाक्षुषस्यापि तैरभ्युपगन्तुं शक्यत्वादिति / द्रव्यार्थतश्चाक्षुषादेः सार्वत्रिकत्वेऽपि पर्यायार्थतस्तत्तच्चाक्षुषविशेषे क्षयोपशमविशेषस्य हेतुत्वमवश्यं वाच्यम्, अन्यथा नियतधर्मोल्लेखानुपपत्तेः, तथा च प्रत्यासत्तीनां विशिष्य