________________ सन्दर्भग्रन्थाः महाप्रकाश इति व्यवस्था स्वल्पभूयोऽवयवावच्छेदेन चक्षुःसंयोगवाद एव घटत इति, तदपि तन्नियामकादेव तदुपपत्तौ तादृशसंयोगकल्पनायां गौरवादेव निराकरणीयमिति दिग् / मनसोऽप्यप्राप्यकारित्वं चिन्त्यमानविषयसम्बन्धकृतानुग्रहोपघातशून्यत्वात् समर्थितमेव / यश्चेह मृतनष्टादिकं वस्तु चिन्तयतोऽत्याप्रौद्रध्यानप्रवृत्तस्य दौर्बल्योरःक्षतादिलिङ्गैरुपघातः, इष्टसङ्गमविभवलाभादिकं च चिन्तयतो हर्षादिभिरनुग्रहोऽनुमीयते, स इष्टानिष्टाहाराभ्यवहारसदृशमनस्त्वपरिणतेष्टानिष्टपुद्ग्लसङ्घातनिमित्तकः, नतु चिन्त्यमानसम्बन्धकृत इति न दोषः / न च सूक्ष्ममन:पुद्गलैः स्थूलचयोपचयासम्भव इत्यपि शङ्कनीयम्, स्थूलैरपि पुद्गलैः सूक्ष्मापनयनद्वारैव तत्करणाभ्युपगमात्, अन्यथा प्रतिक्षणं बालादिशरीरवृद्ध्यनुपपत्तेः, सुप्रसिद्धं चैतत् 'सर्पाः पिबन्ति पवनं न च दुर्बलास्ते' इत्यादौ, न च मनसाऽऽत्मनि प्राप्त एव ज्ञानं जन्यते, चिन्त्यमानास्तु पदार्था उपनीता एव तत्र भासन्त इति तस्य प्राप्यकारित्वमेवेति युक्तम् / चिन्तादृष्टाधुबुद्धसंस्कारारूढानामपि पदार्थानां मनोयोग्यत्वात्, स्वप्नज्ञानकविकाव्यमूलज्ञानादिस्थले तेषां विशेष्यतया मनसाऽवगाहनात्, तेष्वप्राप्यज्ञानजनने आत्मप्राप्तिमात्रेण मनसः प्राप्यकारित्वासिद्धेः, विशेष्यतया स्वजन्य ज्ञानव्याप्यप्राप्तिकत्वस्यैव प्राप्यकारित्वपदार्थत्वादिति दिग् / // अष्टसहस्त्रीतात्पर्यविवरणम् // सा पुनर्योग्यतेति / ननु एवं द्रव्यचाक्षुषादौ तत्प्रतिबन्धककर्मक्षयोपशमत्वादिना हेतुता वाच्या, तद्धेतुता च चक्षुःसन्निकर्षादेरेवेति 'तद्धेतोः' इत्यादिन्यायेन प्रत्यक्षे इन्द्रियार्थसन्निकर्षस्य हेतुत्वं युक्तमिति चेत्, न तत्रापि तद्धेतोरित्यादिन्यायस्य सुलभत्वेनान्तरङ्गप्रत्यासत्तेः क्षयोपशमहेतुतायामेव विनिगमकत्वात् / एतेन स्थैर्यपक्षे विषयनिष्ठाया योग्यताया अपरावृत्तेर्नयनसन्निकर्षस्याहेतुत्वे भित्त्याद्यावृतस्य चाक्षुषापत्तिरित्यादिकम् अपास्तम्, आवृतचाक्षुषजनकक्षयोपशमवतां तदापत्तेरिष्टत्वात्, अनावृतचाक्षुषे चावरणेनैव क्षयोपशमप्रतिबन्धात्, अपरेषां तु दिव्याञ्जनादिसंस्कृतचक्षुषामनुभूयमानभित्याद्यावृतचाक्षुषानुपपत्तिः, तत्र चाक्षुषत्वापलापे च घटदिज्ञानेऽपि तदपलापप्रसङ्गो, विकल्पज्ञानस्य सर्वस्य समानसत्ताया एव युक्तत्वात् / किञ्च प्रत्यासत्तिहेतुतावादिना नेत्राञ्जनसूक्ष्मतारकाद्यप्रत्यक्षत्वायाऽत्यासत्त्यतिदूरत्वयोर्दोषत्वं वाच्यम्, आदर्शसाम्मुख्याञ्जनादिसन्निधाने च तत्प्रत्यक्षत्वाय तत्तद्विषये तदभावविशिष्टतत्तदासत्त्यतिदूरत्वाभावस्य चाक्षुषहेतुत्वं वाच्यमित्यतिगौरवम्, मम तु क्षयोपशमे विशिष्य हेतुता, चाक्षुषादौ तु विलक्षणक्षयोपशमत्वेनैव समानविषयत्वप्रत्यासत्त्येति लाघवम् /