________________ विभाग-१ 47 अयमत्राशय:इन्द्रियचतुष्टयस्य प्राप्यकारित्वाद् व्यञ्जनावग्रहः सम्भवति। नयनमनसोस्त्वप्राप्यकारित्वान्न तत् सम्भवः / प्रमाणं च तत्र, नयनमनसी अप्राप्यकारिणी, विषयकृतानुग्रहोपघातशून्येन्द्रियत्वात्, व्यतिरेके त्वगादिर्दृष्टान्त इति, त्वगादीनां चानुग्रहोपघातौ चन्दनाङ्गनादिस्पर्शनक्षीरशर्कराद्यास्वादनकर्पूरपुद्गलाद्याघ्राणनमृदुमन्दाद्याकर्णनकर्कशकम्बलादिस्पर्शनत्रिकटुकाद्यास्वादनाशुच्यादिपुद्गलाघ्राणनभेर्यादिशब्दश्रवणस्थले दृष्टौ, नयनस्य तु निशितकरपत्रचन्दनाद्यालोकनं मनसश्च तच्चिन्तने न दृश्येते तौ, ततो न नयनमनसी प्राप्यकारिणी इति / एतेन चक्षुर्न प्राप्यकारि अधिष्ठानासम्बद्धार्थग्राहकत्वात्, यत्प्राप्यकारि तन्नाधिष्ठानासम्बद्ध-ग्राहकं, यथा रसनादीत्यनुमानं न चक्षुरप्राप्यकारित्वसाधकम्, प्रदीपप्रभायामनैकान्तिकत्वात्, चक्षुषो हि गोलकमिव प्रभाया अपि दीपोऽधिष्ठानं तदसम्बद्धार्थग्राहकत्वं च प्रभायां न चाप्राप्यकारित्वं तत्रेति नैयायिकोक्तमपास्तम्, प्रभावन्नयनरश्मीनां विषयपर्यन्तं गमनाभ्युपगमे तत्कृतानुग्रहोपघातप्रसङ्गदोषस्य दुर्निवारत्वाद्विपरीतबाधकतर्केणास्मदुक्तानुमानस्य बलवत्त्वात् / सूक्ष्मत्वात्तैजसत्वाच्च नयनरश्मीनां नाञ्जनदहनादीनां सम्बन्धादनुग्रहोपघाताविति परिहारो न रमणीयः, प्राप्तचन्द्रसूर्यादिकिरणैस्तदप्रसङ्गात्, अधिष्ठानगतानुग्रहोपघाताभ्यां तदन्यथासिद्धिरित्यपि वार्तम्, आत्मगतसुखदुःखरूपौ तौ प्रतीन्द्रियकतयोरेव तयोर्हेतुत्वात्, अन्यथोपहतघ्राणस्य कुसुमादिनानुग्रहप्रसङ्गात्, अत एवास्माकं विलक्षणसुखत्वावच्छिन्ने चक्षुःकर्पूरसंयोगत्वादिना हेतुत्वम्, तव त्वधिष्ठानावच्छिन्नचक्षुःकर्पूरसंयोगत्वादिनेति महागौरवम् / यत्तु चक्षुषोऽप्राप्यकारित्वे भित्त्यादिव्यवहितस्यापि ग्रह: स्यात्, भित्त्यादिकं हि प्राप्तिविघातकतयैव विरोधि, न तु स्वरूपसत्तया, तथात्वे तस्मिन् सति क्वचिदपि कार्य न स्यादिति परैरुच्यते, तत्तुच्छम्, काचादिना न प्राप्तिविघातो भित्त्यादिना तु तद्विघात इत्यत्र परेषामिव काचादिना न चाक्षुषप्रतिबन्धो भित्त्यादिना तु तत्प्रतिबन्ध इत्यत्रास्माकं स्वभावस्यैव शरणीकरणीयत्वात्, तन्निर्वाहार्थं च यदि स्वप्राचीस्थपुरुषचाक्षुषे स्वप्रतीचीवृत्तित्वसम्बन्धेन तत्तद्भित्त्यादेः प्रतिबन्धत्वं कल्प्यते, तदा न गौरवं बाधकम्, प्रामाणिकत्वात् / यदि च व्यवहितमयोग्यत्वादेव न गृह्यते, तदापि न दोषः, व्यवधानाभावरूपनैरन्तर्येण चक्षुर्ग्राह्यतानुकूल योग्योत्पादस्य स्थूलर्जुसूत्रनयेनाश्रयणेऽस्माकं बाधकाभावात् / एतेनायोग्यत्वं हि न स्वरूपायोग्यत्वम्, स्थैर्यपक्षे तस्यैव कालान्तरे ग्रहात् / क्षणिकत्वपक्षेऽपि प्रत्यासन्नानां सहकारिणामेव तत्रातिशयजनकत्वं नाप्रत्यासन्नानाम्, प्रत्यासत्तिश्च बौद्धानां निरन्तरोत्पादोऽस्माकं द्रव्ययोः संयोगस्तदुभयमपि कृष्णसारस्यार्थेन न सम्भवति, किन्तु तदाश्रितस्येन्द्रियस्यातीन्द्रियस्य गतिक्रमेणेति निरस्तम्, तत्तद्व्यवधानाभावकूटविशिष्टतयोत्पन्नस्यैव घटादेर्योग्यत्वात् / किञ्चानन्तचक्षुरवयवगतिसंयोगादिकल्पनापेक्षया तद्धेतुत्वेन कल्प्यमानस्य तत्तद्व्यवधानाभावकूटस्य तत्सम्बन्धेनाभिमुख्यस्यैव वा चाक्षुषहेतुत्वं युक्तम् / यदपि सूक्ष्मवस्त्राद्यावरणे घटादेरल्पप्रकाशस्तदभावे च