________________ सन्दर्भग्रन्थाः निर्वाहे व्यवहितार्थादर्शनान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनप्रयासवैफल्यापत्तिरिति न किञ्चिदेतत्। समवायसम्बन्धावच्छिन्नावारकसंयोगाभावावच्छेदकावच्छिन्नचक्षुःसंयोगवत्समवेतसमवेतत्वस्योक्तवैजात्यग्रहे प्रत्यासत्तित्वात्तत्साक्षात्कारप्रयोजकतयापि चक्षुरादिसंयोगनिष्ठवैजात्यान्तरस्वीकाराद्वा नार्धनिखातस्थलीयवैजात्यस्य निर्विकल्पकापत्तिरित्यपि केचित्,-तदप्यसत् / सन्निकर्षे आवश्यकसंयोगाभावस्य निवेशे चक्षुःसंयोगवृत्तिजात्यन्तरकल्पने गौरवात्, आधारताविशेषस्य सन्निकर्षमध्ये निवेश एव लाघवादिति दिक् / // ज्ञानबिन्दुप्रकरणम् // तहि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति, नतु चक्षुर्दर्शनमिति / अथ तत्र दर्शनम्, इतरत्रापि तथैव गृह्यतां, युक्तेस्तुल्यत्वात् / कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह "नाणमपुटे जो अविसए अ अत्थंमि दंसणं होई // मुत्तूण लिंगओ जं, अणागयाईयविसएसु // 2-25 // " अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सच्चक्षुर्दर्शनमित्युच्यते, इन्द्रियाणामविषये च परमाण्वादावर्थे मनसा य उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते / अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्कयाऽऽह, अनागतातीतविषयेषु यल्लिङ्गतो ज्ञानमुदेति 'अयं काल आसन्नभविष्यवृष्टिकस्तथाविधमेघोन्नतिमत्त्वात्,' 'अयं प्रदेश आसन्नवृष्टमेघः पूरविशेषवत्त्वाद्' इत्यादिरूपं तन्मुक्त्वा / इदमुपलक्षणं, भावनाजन्यज्ञानातिरिक्तपरोक्षज्ञानमात्रस्य तस्यास्पृष्टाविषयार्थस्यापि दर्शनत्वेनाव्यवहारात् / // तत्त्वार्थटीका // सूत्रम्-न चक्षुरनिन्द्रियाभ्याम् // 1 // 19 // [भा.] चक्षुषा नोइन्द्रियेण च व्यञ्जनावग्रहो न भवति / चतुभिरिन्द्रियैः शेषैर्भवतीत्यर्थः / [व्या.] करणे सहार्थे चैषा तृतीया / चक्षुषोपकरणाख्यचक्षुरिन्द्रियेण, अनिन्द्रियेण च मन ओघ-ज्ञानरूपेण च सह ते रूपाकारणपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः संश्लेषं न यान्ति, अतो व्यञ्जनं चक्षुरुपकरणेन्द्रियनोइन्द्रिययोर्न भवति / तदभावाच्च तत्करणकोऽवग्रहोऽपि नास्तीति भाष्यं प्राञ्चो व्याचक्षते / तच्चाभिमतशब्दपूरणवाक्यभेदौ विना न सुस्थम्, गवि शशशृङ्गं नास्तीत्यत्र यथा गवाधिकरणकं शृङ्ग शशीयत्वेन नास्तीत्यर्थः, तथाऽत्र चक्षुर्जोइन्द्रियकरणकोऽवग्रहो व्यञ्जनीयत्वेन नास्तीत्यर्थः, ईदृशबोधश्च तत्तदानुपूर्वीज्ञानस्य तथाबोधजनकत्वज्ञानात्, तथा च करणतृतीययैवोपपत्तिरिति तु न्याय्यमाभाति /