________________ विभाग-१ चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेत्; न; प्रथमावलोकनसमये तददर्शनात्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्य, नैसर्गिकसौम्यादिगुणे चन्द्रादौ चावलोकिते उपघाताभावादनुग्रहाभिमानस्योपपत्तेः / ... // अनेकान्तव्यवस्थाप्रकरणम् // एवं च चक्षुःसंयुक्तसमवायादेरप्यस्वीकाराल्लाघवमिति / चक्षुरप्राप्यकारित्वे द्रव्यचाक्षुषेऽपि चक्षुराभिमुख्यमेव नियामकमिति गुणादिचाक्षुषेऽपि तदेव नियामकं युक्तमिति सन्निकर्षमात्रान्यथासिद्धिकारकं तदप्यतिरिच्यत इति मदेकपरिशीलितो लतादिविदितः पन्थाः // // आत्मख्यातिः // अत एव भूयोवयवावच्छेदेन चक्षुःसंयोगाभावान्नार्द्धनिखातवंशादेद्विहस्तादिपरिमाणग्रह इति परेषामभिमतम् / भूयोऽवयवावच्छिन्नत्वोपलक्षितसमवायावच्छिन्नाधारताविशेषेण 'चक्षुःसंयोगवत्' समवेतत्वस्य महत्त्वादिग्राहकस्याभावान्न तद्ग्रह इति तदुक्तिपरमार्थः / अन्यथा यावदवयवसन्निकर्षस्य कुत्राप्यसम्भवादनेकतत्संयोगस्य चातिप्रसञ्जकत्वा(द्) भूयोऽवयवावच्छिन्नत्वाभिधानमनर्थकं स्यात् / यत्तु-विषयतासम्बन्धेन परिमाणसाक्षात्कारत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन तत्तदावरकसंयोगत्वेन प्रतिबन्धकत्वान्नार्धनिखातवंशादिपरिमाणग्रहो यद्वाऽर्धनिखातवंशादेर्महत्त्वादिकं गृह्यत एव महानय वंश इति प्रतीतेस्तदवान्तरबैजात्यं तु नानुभूयत इति तत्तद्वैजात्यग्रहं प्रत्यावश्यकसंयोगस्य विरोधिता / न च निखातानिखातसदृशवंशयोः सन्निकर्षदशायां तन्महत्त्वादिवृत्तिवैलक्षण्यानुभवाद्वैजात्य-प्रत्यक्षं प्रत्यावारकसंयोगानां प्रतिबन्धकत्वासम्भव इति वाच्यम्, तादृशवैलक्षण्यप्रकारकप्रत्यक्षं प्रत्येव तेषां विरोधित्वाद्विशेष्यत्वं प्रतिबध्यतावच्छेदकः सम्बन्धः स्वाश्रयसमवेतत्वं च प्रतिबन्धकतावच्छेदक इत्यनतिप्रसङ्गात् / न चैवं निखातसन्निकर्षात्तादृशवैलक्षण्यनिर्विकल्पकापत्तिरिष्टत्वादिति मथुरानाथादिभिरहितम् तत्तुच्छम् / एवमपि निखातसन्निकर्षान्महत्त्वप्रकारकतादृशवैलक्षण्यविशेष्यकसाक्षात्कारापत्तेर्दुरित्वात् किञ्चैवमावृतैकपाविच्छेदेन यस्य चक्षुःसंयोगान्नोक्तवैजात्यस्य तद्ग्रहस्तस्यैवान्यदा पुरुषान्तरस्य वा तदानीं पार्वान्तरावच्छेदेन चक्षुःसंयोगेऽप्यग्रह: स्यादावारकसंयोगस्य विरोधिनः सत्त्वात् / तत्कालीनतत्तत्पुरुषीयमहत्त्वादिप्रत्यक्षं प्रत्येवोक्तप्रतिबन्धकत्वे त्वनावरणकालीनस्य विलक्षणमहत्त्वादिप्रत्यक्षस्यावरणदशायामुत्पत्तिप्रसङ्गाः, न हि तत्रापि सन्निकर्षं विनाऽन्यद्विशिष्य कारणं क्लृप्तं येन तद्विलम्बात्तद्विलम्बः स्यात् / स्वप्राचीस्थपुरुषीयोक्तवैजात्यसाक्षात्कारत्वावच्छिन्न एव स्वप्रतीच्यवच्छिन्नावरकसंयोगत्वेन प्रतिबन्धकत्वे तु द्रव्यचाक्षुषेऽप्येवं भित्त्यादिसंयोगप्रतिबन्धकत्वेन