________________ सन्दर्भग्रन्थाः व्यवधानकालीनचाक्षुषप्रतिबन्धकत्वाद् नान्धकारमध्यावस्थितस्यालोकस्थसाक्षात्कारानुपपत्तिः / प्रतिबन्धकत्वं च प्रकृतिविशेषशक्त्युबोधकत्वमिति नानुपपत्तिः।। ___ प्राप्यकारित्वे च चक्षुषः शाखा-चन्द्रमसोर्यगपद्ग्रहानुपपत्तिः, युगपदुभयसंयोगाभावात् / न च "तिर्यग्भागावस्थितयोः शाखा-चन्द्रमसोर्युगपद् संयोगोपपत्तिः' इति वर्धमाननोक्तं निरवद्यम्, ऊर्ध्वं प्रसृतानामेव नयनरश्मीनां तयोस्तिर्यग्भागेऽवस्थानोपपत्तेरूस्थितवस्तुग्रहणप्रसङ्गात् / न चाग्रभागावच्छेदेन संयुक्तस्यैव चक्षुषो ग्राहकत्वम्, अत एव न नयनस्थिताञ्जनादिग्रहोऽपीति नायं प्रसङ्ग इति वाच्यम्; तथापि तावत्पर्यन्तं प्रसृस्यान्तरालिकवस्त्वन्तरग्रहणप्रसङ्गात्, संनिहितं विमुच्याऽसंनिहितसंयोगानुपपत्तेः, अनन्यगत्या वेगादिविशेषात् विनैव संनिकृष्टदेशविशेषसंयोगं विप्रकृष्टदेशसंयोगोपपादने चानन्यगत्या देशविशेषस्य तत्तच्चाक्षुषहेतुत्वमस्तु, अनन्तचक्षुःक्रियासंयोगविभागतत्कार्यकारणभावाद्यकल्पनलाघनात् / अस्तु वा नयनप्राप्तिनियामकं विशिष्टाभिमुख्यमेव तत्कार्यनियामकम् / एतेन 'क्रमिकोभयसंयोगवता चक्षुषा शाखा-चन्द्रमसोर्ग्रहणे कालसनिकर्षाद् योगपद्याभिमानः' इत्यपि निरस्तम्, चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन 'शाखाचन्द्रौ साक्षात्करोमि' इत्यनुव्यवसायानुपपत्तेश्च / न च क्रमिकतदुभयजनितसंस्काराभ्यां जनितायां समूहालाम्बनस्मृतावेवानुभवत्वारोपात् तथाऽनुव्यवसाय इति सांप्रतम्; तादृगारोपादिकल्पनायां महागौरवादिति / अधिकं ज्ञानावर्णवादौ / // स्याद्वादकल्पलता // अत्रेयं प्रक्रियाअणूनामेवैकत्वसंख्यासंयोगमहत्त्वऽपरत्वादिपर्यायैरुत्पत्तिः, बहुत्वसंख्याविभागाणुपरिमाणपरत्वादिपर्यायैश्चानुत्पत्तिः, न च विशिष्टाऽण्वतिरिक्तमवयविद्रव्यमऽस्ति / न चैवं विभक्तस्येव संहतस्याप्यणोरचाक्षुषत्वं स्यादिति वाच्यम्, 'नानास्वभावत्वेन तस्य तदा चाक्षुषजननस्वभावत्वात्, विप्रकृष्टसन्निकृष्टेषु रेण्वादिषु तथास्वभाव्यदर्शनात्, प्रतिप्रतिपत्तारं च प्रति नियमेनाऽनतिप्रसङ्गात्' इति बहवः / ननु-"न स्थूलत्वं परमाण्वभिन्नं गुणगुणिनोर्भेदात्, कारणबहुत्वकारणमहत्त्वप्रचयक्रमेणोत्पन्नस्य तस्याऽवयविनिष्ठत्वाच्च / न चावयविनि मानाभावः, विलक्षणसंस्थानावच्छेदेन सन्निकर्षाद् यद्रव्यगतघटत्वादिग्रहस्तत्तद्व्यक्तेरुत्पादविनाशभेदादिप्रत्ययान्यथाऽनुपपत्त्या पृथगवयविसिद्धेः / न चाऽऽवृतत्वाऽनावृतत्वाभ्यां तत्भेदः, अवच्छेदकभेदेनाऽविरोधात् / न चाऽर्धावृतेप्यवयविनीन्द्रियसनिकर्षसत्त्वे परिमाणादिग्रहप्रसङ्ग, इष्टत्वात्, तद्गतहस्तत्वादिजातिग्रहे तु यावदवयवाऽवच्छेदेन सन्निकर्षस्य हेतुत्वात् / // जैनतर्कभाषायाम् प्रमाणपरिच्छेदः // स च नयन-मनोवर्जेन्द्रियभेदाच्चतुर्धा, नयनमनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहासिद्धेः, अन्यथा तयोर्जेयकृतानुग्रहोपघातपात्रत्वे जलानलदर्शनचिन्तनयोः क्लेददाहापत्तेः / रविचन्द्राद्यवलोकने