________________ विभाग-१ प्रदीपवत्' इत्यनुमानात् तत्सिद्धिः, चक्षुःविषयसंयोगेनानैकान्तिकत्वात्, 'द्रव्यत्वे सति' इति विशेषणेऽप्यञ्जनविशेषेणानैकान्तिकत्वाच्च / एतेन 'रूपसाक्षात्काराऽसाधारणकारणं तैजसम्, रसाऽव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशकत्वात्, प्रदीपवत्' इत्यपि निरस्तम् 'अञ्जनादिभिन्नत्वे सति' इति विशेषणदाने चाऽप्रयोजकत्वात्, अञ्जनादिवच्चक्षुषोऽतैजसत्वेऽप्यक्षतेः, चक्षुः प्रदीपयोरेकया जात्या व्यञ्जकत्वाऽसिद्धेश्च / / अथ चक्षुषोऽप्राप्यकारित्वे कुड्यादिव्यवहितस्यापि ग्रहणं स्यात्, असंनिहितत्वाऽविशेषात्, योग्यता च स्थैर्यपक्षे न परावर्तत इति चेत् ? हन्त ! एवं तवापि कथं नायं दोषः ! स्फटिकादिव्यवहितग्रहणेऽप्यतिप्रसंगस्य दुर्निवारत्वात्, स्फटिकादिकं निर्भिद्य विषयदेशं यावद् नायनरश्मीनां गमने च तूलपटलादेस्तैः सुतरां सुभेदत्वात्, तूलपटलाद्यन्तरितस्याप्युपलम्लप्रसङ्गात् / यत् पुनरुदयनेनोक्तम्-'स्फटिकाद्यन्तरितोपलब्धिः प्रसादस्वभावतया स्फटिकादीनां तेजोगतेरप्रतिबन्धकतया प्रदीपप्रभावदेवोपपन्ना' इति तद् दूषितं वृद्धैःप्रसन्नतावन्मूर्तद्रव्यकृतगत्यप्रतिबन्धस्य क्वाप्यदर्शनात्, तूलादिना जलादिगत्यप्रतिबन्धस्य प्रशिथिलावयवारभ्यत्वनिमित्तकस्यैव दर्शनात् / स्फटिकान्तर्गतप्रदीपरश्मयस्तु न तं भित्त्वा प्रसरन्ति, किन्तु तत्संपर्कमासाद्य स्फटिकपरमाणुपुञ्ज एव तथा परिणतः सर्वतः प्रसरति / अत एव पीतरक्तादिकाचकूपिकातो रश्मयोऽपि तच्छायाः प्रसरन्तो दृश्यन्ते / अथ यथा पारदस्याऽयस्पात्र भेदे सामर्थ्यम्, न पुनरलाबुपात्रभेदे, तथा लोचनरोचिषामपि स्फटिकादिभेदे शक्तिर्भविष्यति न तूलपटलभेद इति चेत् ? न, प्रत्यभिज्ञाबाधात् / तस्मात् कुड्यद्यन्तरितचाक्षुषजनकक्षयोपशमाभावादेवास्मदादीनां न तदन्तरितचाक्षुषम्, तादृशक्षयोपशमवतामतिशयितज्ञानिनां तु भवत्येव तच्चाक्षुषम् / अथानन्तरितस्यापि कदाचिदन्तरितत्वात् कुड्यदिव्यवधानकालीनघटादिचाक्षुषे ज्ञानावरणप्रकृतिविशेषस्य प्रतिबन्धकत्वेऽपि तदृशायां तदव्यवधानकालीनचाक्षुषापत्तिवारणाय तादृशचाक्षुषे तत्तत्कुड्यादिव्यवधानाभावहेतुत्वे स्वप्राचीस्थपुरुषाक्षात्कारे स्वप्रतीचीवृत्तित्वसंबन्धेन कुड्यादीनां प्रतिबन्धकत्वकल्पने वा गौरवाच्चक्षुषः प्राप्यकारित्वमेव युक्तम्, चाक्षुषत्वावच्छिन एव चक्षुःसंयोगत्वेन हेतुताकल्पने लाघवात्, कुड्यादीनां नयनादिप्राप्तिप्रतिबन्धकत्वकल्पनागौरवस्य फलमुखत्वात्, तत्तत्क्रियातत्तदुत्तरदेशादीनामेव संयोगनियामकत्वेनानतिप्रसङ्गाद्, भित्त्यादीनां प्रतिबन्धकत्वाऽकल्पनाद् वेति चेत् ? न, अन्धकारादिसाधारण्येन कुड्यदीनामेकशक्तिमत्त्वेनावारकत्वकल्पने गौरवाभावात् / एतेन 'परभागेऽन्धकारवति भित्यादौ चाक्षुषोदयाच्चक्षुःसंयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति हेतुत्वाच्चक्षुषः प्राप्यकारित्वसिद्धिः' इत्यपि निरस्तम् कुड्यदिवदर्वाग्भागावस्थितस्यैवान्धकारस्यावरणत्वात् अन्धकारव्यवधानस्य च विषयव्याप्तस्य