________________ 42 सन्दर्भग्रन्थाः तथापि द्रव्यचाक्षुषत्वाद्यवच्छिन्नं प्रति चक्षुःसंयोगत्वादिना हेतुत्वमनुगतमेव, तदुक्तं मणिकृताप्रत्यक्षविशेषे इन्द्रियार्थसन्निकर्षविशेषो हेतुरनुगत एवेति-(त.चिं.प्र.ख.) इति चेत् ? न, परमाण्वाकाशादौ व्यभिचारात् / न च महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वस्यापि सहकारित्वात् न दोष इति वाच्यम्, समाकलितसकलनेत्रगोलकस्य दूरासन्नतिमिररोगावयविन उपलम्भप्रसङ्गात् / अत्यन्ताऽऽसत्यभावस्यापि सहकारित्वे चाधिष्ठानसंयुक्ताञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात् / अग्रावच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽप्युदीची प्रति व्यापारितनेत्रस्य काञ्चनोचलोपलम्भप्रसङ्गात्, दूरत्वेन नेत्रगतिप्रतिबन्धकत्वे च शशधरस्याऽप्यनवलोकनप्रसङ्गात्, तदभीषुभिरिव तिग्मकराभीषुभिरपि तदभिवृद्धेश्चाऽविशेषात्, तिग्मत्वेन तिग्मकररश्मीनां तत्प्रतिघातकत्वे च तदालोकपरिकलितपदार्थमात्राऽभानप्रसङ्गादिति रत्नप्रभाचार्यप्रभृतयः / इन्द्रियसम्बन्धत्वेन प्रत्यक्षहेतुत्वेऽपि सामीप्यविशेषेण संयोगस्याऽन्यथासिद्धिरित्यपि युक्तमुत्पश्यामः / प्राप्यकारित्वे च चक्षुषः शाखाचन्द्रमसोयुगपद्ग्रहणानुपपत्तिः, युगपदुभयसंयोगाभावात् / न च शतपत्रसूचीवेधव्यतिकरण तत्र यौगपद्याभिमान एव, क्रमेणैव वेगातिशयादुभयसंयोगेनोभयसाक्षात्कारजननादिति वाच्यम्, चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन 'शाखा-चन्द्रौ साक्षात्करोमी'त्यनुव्यवसायानुपपत्तेः / न च क्रमिकतदुभयानुभवजनितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात् तथानुव्यवसाय इति साम्प्रतम्, तादृगारोपादिकल्पनायां महागौरवात् / न च तिर्यग्भागापस्थितयोः शाखाचन्द्रमसोर्युगपत्संयोग इति साम्प्रतम्, सन्निहितव्यवहितयोर्युगपत्संयोगेऽतिप्रसङ्गात् / "नयनान्निःसरता नायनेन तेजसाऽर्थसंसर्गसमकालमेव बाह्यालोकसहकारेणान्यचक्षुरारम्भाच्छाखाचन्द्रमसोर्युगपद्ग्रहः" इत्यपि तुच्छम्, उद्भूतरूपवत्तेज:संसर्गेणाऽनुद्भूतरूपवत्तेजस आरम्भानभ्युपगमाद् बाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गाच्चेत्यधिक मत्कृतज्ञानार्णव-स्याद्वादरहस्ययोरवसेयम् / स्याद्वादकल्पलता चक्षुर्न प्राप्यकारि, अधिष्ठानाऽसंबद्धार्थग्राहकेन्द्रियत्वात्, मनोवत् / न चाप्रयोजकत्वम् संबद्धार्थग्राहकत्वे तस्य वह्निजलावलोकनादिना दाहक्लेदादिप्रसङ्गात्, अधिष्ठानाच्चक्षुषो विभागेऽन्धत्वप्रसङ्गाच्च / अथ नयनाद् नायना रश्मय एव निर्गत्य प्राप्यं च वस्तु रविरश्मय इव प्रकाशमादधति, सूक्ष्मत्वेन तैजसत्वेन च तेषां वहन्यादिभिर्दाहादयो न भविष्यन्तीति चेत् ? न्, चक्षुषस्तैजसत्वस्यैवासिद्धेः / न च 'चक्षुस्तैजसम्, रूपदिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्,