________________ विभाग-१ साक्षात्कारो न प्रमा इत्युक्तिः युक्तिसहा, यथार्थप्रवृत्तिजनकत्वेन तत्प्रमात्वस्य व्यवस्थितत्वात् / न च कारणबाधादप्रमात्वम्, तस्यैवाऽसिद्धेः / न च स्वप्नादिवदञ्जनादेनिध्यादिसूचकत्वमेवेति युक्तम्, व्याप्तिग्रहादिकं विनाऽनुमितिरूपतत्सूचनाऽसम्भवात्, स्वप्नादिस्थले तु व्याप्तिग्राहकस्वप्नशास्त्राद्यनुसरणनियमादिति दिग्। अथ चक्षुषोऽप्राप्यकारित्वेऽसन्निहितत्वाऽविशेषात् कुड्यादिव्यवहितस्यापि ग्रहणप्रसङ्ग इति चेत् ? न, अतिसन्निहितस्य गोलकादेवि भित्त्यादिव्यवहितस्यापि योग्यताऽभावादेवाऽग्रहात् / नन्वग्रावच्छेदेनैव चक्षुःसंयोगस्य ग्राहकत्वात् न मूलावच्छेदेन तत्संयुक्तगोलकादिग्रहप्रसङ्गः / कुड्यादिव्यवहितानां स्वरूपयोग्यता च स्थैर्यपक्षे न परावर्तते, क्षणिकत्वपक्षेऽप्यप्रत्यासन्नानां सहकारिणां नातिशयाऽजनकत्वम् / प्रत्यासत्तिश्च परेषां निरन्तरोत्पादः अस्माकं तु संयोगः, तदुभयमपि कृष्णसारस्यार्थेन न सम्भवतीति चेत् ? न, शक्ति-प्रत्यासत्त्यैवाऽतिशयाऽऽ. धानाल्लोहाकर्षकायस्कान्तादावतिरिक्तप्रत्यासत्त्यदर्शनात् सामीप्यविशेषस्य तत्र सम्बन्धत्वे चात्राऽपि तेनैवोपपत्तेः। युक्तञ्चैतत्, संयोगादिनानाप्रत्यासत्त्यकल्पनलाघवात् / न चैवमप्राप्यकारित्वभङ्गः, चक्षुःसंयोगस्य चाक्षुषाऽजनकत्वेनैव तदुपपत्तेः वस्तुतः सन्निहितविषयग्रहे व्यवधानाभावकूट एव विषयनिष्ठा योग्यता व्यवहितविषयग्रहे चाऽञ्जनादिनिष्ठेव शक्तिलक्षणा योग्यता, हेतु-विषय-पुरुषादिभेदेन तद्वैचित्र्यात् / अत एवाऽस्मदादीनामालोकापेक्षयैव विषयग्रह: पेचकादीनां तु न तथेत्युपपद्यते / इत्थञ्चाऽव्यवहितचाक्षुषसाक्षात्कारे चक्षुर्व्यवधानाभावादीनां व्यवहितचाक्षुषे चक्षुरञ्जनादीनां विलक्षणशक्तिमत्त्वेन हेतुत्वान्न किञ्चिदनुपपन्नम् / भित्त्यादेश्चक्षुःसंयोगप्रतिबन्धकत्वे तु स्फटिकादीनामपि तथात्वप्रसङ्गात् तद्व्यवहितानामप्यनुपलब्धिप्रसङ्गः / प्रसादस्वभाववतां स्फटिकादीनां न नायनरश्मिगतिप्रतिबन्धकत्वमिति चेत् ? तर्हि भित्त्यादीनां चक्षुःप्राप्तिप्रतिबन्धकत्वापेक्षया लाघवात् चाक्षुषप्रतिबन्धकत्वमेव कल्प्यताम्, स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचीवृत्तित्वसम्बन्धेन भित्यादीनां तत्त्वसम्भवात् / यदि च तत्तत्क्रियातत्तदुत्तरदेशादीनाममेव संयोगनियामकत्वेनाऽनतिप्रसङ्गात् भित्त्यादीनां न प्रतिबन्धकत्वमिति विभाव्यते, तदा तद्धेतोरिति न्यायेन लाघवात् तत्तन्नयनोन्मीलनस्यैव तत्तच्चाक्षुषहेतुत्वमस्तु, किमनन्तसंयोगादिकल्पनया। ___'इन्द्रियसम्बन्धत्वेन प्रत्यक्षहेतुत्वकल्पनात् फलमुखं गौरवं न दोषाय' इति चेत् ? न, इन्द्रियसम्बन्धत्वस्यैकस्याभावेन तथाहेतुताया एवाऽसिद्धेः /