________________ 40 . सन्दर्भग्रन्थाः यत्तु-स्वव्यवहारशक्तत्वमेव स्वविषयत्वमिति तन, आत्मन्यतिप्रसङ्गात्, ज्ञानपददाने चेच्छाद्यनुपसङ्ग्रहात्, इच्छादौ परम्परया तत्सत्त्वस्य च ज्ञानादावपि सुवचत्वात्, शक्तेः पदार्थान्तरत्वेनाऽऽत्माश्रयोद्धारेऽपि तस्या अनन्यथा-सिद्धनियतपूर्ववृत्तित्वज्ञानव्यङ्ग्यत्वेनाऽन्योन्याश्रयानुद्धाराच्चेति विभावनीयम् / xx..........xx तथाहि-चक्षुरप्राप्यकारि, अधिष्ठानाऽसम्बद्धार्थग्राहकेन्द्रियत्वात्, मनोवत् / 'अधिष्ठाने'त्यादिविशेषणेन स्पर्शनादाविन्द्रियपददानेन च प्रदीपप्रभायां व्यभिचारपरिहारः / न चाऽप्रयोजकत्वं, सम्बद्धार्थग्राहकत्वे तस्य करवालजलावलोकनादिनोपघातानुग्रहप्रसङ्गात् / न चाऽसिद्ध एव तस्योपघातानुग्रहाऽभावः, मुहुर्मुहुः सूरकरजलावलोकनाभ्यां दाहशैत्यलक्षणतदर्शनादिति वाच्यम्, अवलोकनानन्तरं चक्षुर्देशं प्राप्तेन मूर्तेन रविकरादिनोपघातसम्भवात्, जलावलोकनादौ चोपघाताभावेनानुग्रहाभिमानात्, स्वतस्तद्देशं प्राप्तेन च चन्द्रमरीचिनीलादिनाऽनुग्रहोऽपि भवत्येव / यदि च चक्षुः स्वतः एवानुग्राहकोपघातकवस्तुनी संसृज्याऽनुग्रहोपघातौ लभेत तर्हि सूरकरावलोकनादिव करवालावलोकनादप्यभिघातः स्यात् / तदिदमुक्तं भाष्यकृता लोअणमपत्तविसयं मणोव्व जमणुग्गहाइसुन्नं ति / : जलसुरालोआईसु दीसंति अणुग्गहविघाया // डज्झेज्झ पाविउं रविकराइणा, फरिसणं व को दोसो ? मन्नेज्जणुग्गहं पि व उवघायाभावओ सोम्म // गंतुं ण स्वदेसं पासई पत्तं सयं व णियमोऽयं / पत्तेण उ मुत्तिमया उवघायाणुग्गहा होज्ज // (विशेषा.भा.श्लो. 209-210-211) / त्ति ननु नयनान्नायना रश्मयो निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमादधति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्नयादिभिर्दाहादयो न भविष्यन्तीति चेत् ? न, चक्षुषस्तैजसत्वस्यैवाऽसिद्धेः / न च चक्षुः तैजसं, रूपादिषु मध्ये रूपस्यैवाऽभिव्यञ्जकत्वात् प्रदीपवदित्यनुमानात् तत्सिद्धिः, चक्षुविषयसंयोगेनाऽनैकान्तिकत्वात् / द्रव्यत्वे सतीति विशेषणेऽप्यञ्जनविशेषेणानैकान्तिकत्वाच्च / एतेन-'रूपसाक्षात्काराऽसाधारणकारणं तैजसं, रसाऽव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशकत्वात्, प्रदीपवत्' इत्यपि निरस्तम् / अञ्जनादिभिन्नत्वे सतीति विशेषणदाने चाऽप्रयोजकत्वात् चक्षुःप्रदीपयोरेकया जात्या व्यञ्जकत्वाऽसिद्धः / एतेन स्वप्नादिकमिवाञ्जनादिकं सहकृत्य मनसैव साक्षात्कृते चाक्षुषत्वभ्रम एव इत्युक्तावपि न क्षतिः / / वस्तुत एवमञ्जनादेः पृथक्प्रमाणत्वापत्तिः, मनो यदसाधारणं सहकार्यासाद्य बहिर्गोचरां प्रमां जनयति तस्य प्रमाणान्तरत्वनियमात् / न च पटपटलाच्छनचक्षुषामञ्जनादिजनितो निध्यादि