________________ विभाग-१ (यदि प्राप्तं गृह्णीयात्तद्गतमञ्जनरजोमलादिकम् // प्रेक्षेत यन्न पश्यति, अप्राप्तकारि ततश्चक्षुः // ) अत्यन्तासत्त्यभावस्यापि सहकारित्वे चाधिष्ठानसंयुक्ताञ्जनशलाकाया अप्यप्रत्यक्षत्वप्रसङ्गात्, अग्रावच्छेदेन चक्षुःसंयोगस्य हेतुत्वेऽप्युदीची प्रति व्यापारितनेत्रस्य काञ्चनाचलोपलम्भप्रसङ्गात्, दूरत्वेन नेत्रगतिप्रतिबन्धे च शशधरस्याप्यनवलोकनप्रसङ्गात् / तदभीषुभिरिव तिग्मकराभीषुभिरपि तदभिवृद्धेश्चाविशेषात्, तिग्मत्वेन तिग्मकररश्मीनां तत्प्रतिघातकत्वे च तदालोकपरिकलितपदार्थमात्राभानप्रसङ्गादिति रत्नप्रभाचार्यप्रभृतयः (रत्नाकरावतारिकाद्वितीयपरि० सूत्र 5) / इन्द्रियसम्बन्धत्वेन प्रत्यक्ष-हेतुत्वेऽपि सामीप्यविशेषेण संयोगस्यान्यथासिद्धिरित्यपि युक्तमुत्पश्यामः / प्राप्यकारित्वे च चक्षुषः शाखाचन्द्रमसोर्युगपद्ग्रहानुपपत्तिः, युगपदुभयसंयोगाभावात् / न च शतपत्रसूचीवेधव्यतिकरेण तत्र यौगपद्याभिमान एव, क्रमेणैव वेगातिशयादुभयसंयोगेनोभयसाक्षात्कारजननादिति वाच्यम्, चन्द्रज्ञानानुव्यवसायसमये शाखाज्ञानस्य नष्टत्वेन शाखाचन्द्रौ साक्षात्करोमीत्यनुव्यवसायानुपपत्तेः, न च क्रमिकतदुभयानुभवजनितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात् तथानुव्यवसाय इति साम्प्रतम्, तादृगारोपादिकल्पनायां महागौरवम्। न च तिर्यग्भागावस्थितयोः शाखाचन्द्रमसोर्युगपत्संयोग इति साम्प्रतम्, सन्निहितव्यवहितयोर्युगपत्संयोगेऽतिप्रसङ्गात् / नयनानिःसरता नायनेन तेजसाऽर्थसंसर्गसमकालमेव * बाह्यालोकसहकारेणान्यचक्षुरारम्भाच्छाखाचन्द्रमसोर्युगपद्ग्रह इत्यपि तुच्छम्, उद्भूतरूपवत्तेजःसंसर्गेणानुद्भूतरूपवत्तेजस आरम्भानभ्युपगमाद् बाह्यचक्षुषा पृष्ठावस्थितवस्तुग्रहप्रसङ्गाच्चेत्यधिक मत्कृतस्याद्वादरहस्यादवसेयम्) (न्यायालोकादुद्धृतम्) // न्यायालोकः // तस्मात् सम्बन्धविशेषेण विषयनिष्ठस्य प्रत्यक्षप्रतिबन्धकज्ञानावरणाऽपगमस्य शक्तिविशेषस्य वा प्रत्यक्षविषयतानियामकत्वमिति युक्तमुत्पश्यामः / एतेन क्वचिदिन्द्रियसन्निकर्षः क्वचिद्दोषविशेषश्च तन्नियामकः, अन्ततस्तदन्यान्यत्वेन वा तन्नियामकत्वं तत्र ज्ञानभेदनिवेशे गौरवमितिनिरस्तम् / वस्तुतः चक्षुर्मनसोऽप्राप्यकारित्वात् दोषाऽजन्यलौकिकप्रत्यक्षविषयतायामपि नेन्द्रियसन्निकर्षनियामकत्वमिति स्मर्तव्यम् / अप्रयोजकत्वेनैतादृशनियमाऽसिद्धेश्च / अभेदे कथं विषयत्वमिति चेत् ? यथा घटाभावे घटाभावविशेषणत्वम् / "किं तदिति चेत् ? स्वभावविशेष एव / अनिर्वचनात् तदसिद्धिरिति चेत् ? न, माधुर्यादिवत्तस्याऽऽख्यातुमशक्यत्वेऽपि प्रत्याख्यातुमशक्यत्वात् /