________________ सन्दर्भग्रन्थाः तथात्वासम्भवात् / व्यवहितेऽपि योगि चाक्षुषानुरोधेन योग्यताया अवश्याश्रयणीयत्वाच्च / एतेन स्फटिकत्वाद्यभावकूटविशिष्टद्रव्यत्वेनोक्तसम्बन्धेनास्तु प्रतिबन्धकत्वम् इत्यप्यपास्तम् / ननु किञ्चिदवच्छेदेन तमः प्रच्छन्नेऽपि भित्त्यादौ यदवच्छेदेन चक्षुःसंयोगः, तदवच्छेदेनालोकसंयोगादेव चाक्षुषदर्शनाच्चक्षुषः प्राप्यकारित्वं सेत्स्यति, इति चेत्,-एतन्निपुणतरमन्धकारवादे प्रतिविधास्यामः / एवं च-शाखाभिमुखेन चक्षुषा विटपिनो मूलावच्छिन्नसंयोगग्रहाभावादव्याप्यवृत्तिचाक्षुषं प्रति चक्षुः संयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायाः सन्निकर्षत्वस्यावश्यकल्पनीयतया चक्षुषः प्राप्यकारित्वमायास्यति, इत्यपि प्रतिविधेयप्रायमवधेयम् / तदानीं चक्षुरभिमुखदेशाविष्वग्भावाभावादेव संयोगादिचाक्षुषानुदयात् / केचित्तु-चक्षुषः प्राप्यकारित्वे पृथुतरग्रहणानुपपत्तिः, न ह्यणुना चक्षुषा पृथुतद्रव्यसंयोगः सम्भवीत्याहुः / 'स्वं पुण पासई अपुटुं' इत्याद्यागमोऽप्यत्रार्थे साक्षी, इति दिग् / इति चक्षुः अप्राप्यकारिताव्यवस्थापनं प्रासङ्गिकम् / . // सविवरणम् श्रीज्ञानार्णवप्रकरणम् // .. दृष्टान्तेन तावच्चक्षुषोऽप्राप्यकारित्वं व्यवस्थापयति अप्राप्यकार्यधिष्ठाना-सम्बद्धग्राहि लोचनम् // अनुग्रहोपघाताभ्यां, विषयाद् भाव्यमन्यथा // 16 // 74 // [वि] चक्षुरप्राप्यकारि अधिष्ठानासम्बद्धार्थग्राहकेन्द्रियत्वाद्, मनोवद्, अधिष्ठानेत्यादिविशेषणेन स्पर्शनादाविन्द्रियपददानेन च प्रदीपप्रभायां व्यभिचारः परिहतः, न चाप्रयोजकत्वं सम्बद्धार्थग्राहकत्वे तस्य करवालजलावलोकनादिनोपघातानुग्रहप्रसङ्गात्, न चासिद्ध एव तस्योपघातानुग्रहाभावो भूयो भूयः सूरकरावलोकनेन जलावलोकनेन च दाहशैत्यलक्षणतद्दर्शनादिति वाच्यम्, अवलोकनानन्तरं चक्षुर्देशं प्राप्तेन मूर्तेन रविकरादिनोपघातस्य सम्भवाज्जलावलोकनादौ चोपघाताभावेनानुग्रहाभिमानात् स्वतस्तद्देशं प्राप्तेन च चन्द्रमरीचिनीलादिनाऽनुग्रहोऽपि भवत्येव, यदि च चक्षुः स्वत एवानुग्राहकोपघातवस्तुनी संसृज्यानुग्रहोपघातौ लभेत तर्हि सूरकरावलोकनादिव करवालावलोकनादप्यभिघातः स्यात्, तदिदमाह "लोअणमपत्तविसयं, मणोव्व जमणुग्गहाइसुन्नं ति // जलसूरालोआइसु, दीसंति अणुग्गहविघाया // 209 // डझेज्ज पाविउं रवि-कराइणा फरिसणं व को दोसो // मन्नेज्ज अणुग्गहं पि व उ वघायाभावओ सोम्म ! // 210 //