________________ विभाग-१ गंतुं ण स्वदेसं, पासइ पत्तं सयं व णियमोयं // पत्तेण उ मुत्तिमया, उवघायाणुग्गहा होज्जा // 211 // " (विशेषा भा) लोचनमप्राप्तविषयं, मन इव यदनुग्रहादिशून्यमिति / जलसूरालोकादिषु दृश्यते अनुग्रहविघातौ // दह्येत प्राप्य रविकरादिना स्पर्शनमिव को दोषः / मन्येतानुग्रहमिवोपघाताभावतः सौम्य ! // गत्वा न रूपदेशं, पश्यति प्राप्तं स्वयं वा नियमोऽयम् // प्राप्तेन तु मूर्तिमतोपघातानुग्रही भवेताम् // 16 // ननु नयनान्नायना रश्मयो निर्गत्य प्राप्य च वस्तु रविरश्मय इव प्रकाशमादधति सूक्ष्मत्वेन तैजसत्वेन च तेषां वह्नयादिभिर्दाहादयो न भविष्यन्तीति चेत्, न, चक्षुषस्तैजसत्वस्यैवासिद्धेः, तथाहि अदृष्टकल्पनापत्तिस्तैजसत्वे हि चक्षुषः // न च तत्साधकं किञ्चिद्-बलवन्मानमीक्ष्यते // 17 // 75 // [वि.] चक्षुषस्तैजसत्वकल्पनेऽनुद्भूतरूपानुद्भूतस्पर्शतेजोन्तरं कल्पनीयमित्यदृष्टकल्पनापत्तिः परमते, न च तत्तैजसत्वसाधकं किञ्चिद्बलवत्प्रमाणमीक्षामहे / न च चक्षुस्तैजसं रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वात्प्रदीपवदित्यनुमानात्तत्सिद्धिः, स्वस्पर्शव्यञ्जकत्वेन प्रदीपदृष्टान्तस्य साधनवैकल्याद्विषयेन्द्रियसंयोगेनानैकान्तिकत्वाद्, द्रव्यत्वे सतीति विशेषणेऽप्यञ्जनविशेषेणानैकान्तिकत्वाच्च / एतेन "रूपसाक्षात्कारासाधारणकारणं तैजसं रसाव्यञ्जकत्वे सति स्फटिकाद्यन्तरितप्रकाशत्वात्प्रदीपवद्" इत्यपि निरस्तम् / अञ्जनादिभिन्नत्वे सतीति विशेषणदाने चाप्रयोजकत्वाच्चक्षुःप्रदीपयोरेकया जात्या व्यञ्जकत्वासिद्धेः / एतेन "स्वप्नादिकमिवाञ्जनादिकं सहकृत्य मनसैव साक्षात्कृते निध्यादौ चाक्षुषत्वभ्रम एवैत्युक्तावपि न क्षतिः / किं चैवं तवाऽञ्जनादेः पृथक्प्रमाणत्वापत्तिः, मनो यदसाधारणं सहकार्यासाद्य बहिर्गोचरां प्रमां जनयति तस्य प्रमाणान्तरत्वनियमात् / न च पटपटलाच्छन्नचक्षुषामञ्जनादिजनितो निध्यादिसाक्षात्कारो न प्रमेत्युक्तियुक्तिसहा, यथार्थप्रवृत्तिजनकत्वेन तत्प्रमात्वस्य व्यवस्थितत्वात् / न च कारणबाधादप्रमात्वं, तस्यैवासिद्धेः / न च स्वप्नादिवदञ्जनादेनिन्ध्यादिसूचकत्वमेवेति युक्तं व्याप्तिग्रहादिकं विनाऽनुमितिरूपतत्सूचनाऽसम्भवात्, स्वप्नादिस्थले तु व्याप्तिग्राहकस्वप्नशास्त्राद्यनुसरणनियमादिति दिग् /