________________ विभाग-१ अपि च स्वनयननिकटोपटङ्किनोऽर्थः पटु विकसन्ति न जातु तत्प्रतीपाः / जगति विचरतीह योग्यतेयं शिव शिव वञ्चनचातुरी धुरीणा // 2 // इत्यादि निरस्तम् / यत:योग्यता वस्तुनो बोधे स्मृता प्रतिनियामिका / उपधानं पुनस्तस्य चक्षुरुन्मीलनादिना // 3 // यदाभिमुख्यं नियमाय कर्मणो न नाम संयोगनियामकं धियः / इहास्मि नास्मिन्नियमे स्पृहावहः, कृतान्तकोपस्तु तवैव केवलम् // 4 // यत्र यत्र परिसर्पति चक्षुस्तत्र तत्र किल वेदनजन्म। गौतमीयसमये तदिदानीं प्राप्यकारिणि न चक्षुषि साक्षि // 5 // अनन्तनयनविषयसंयोगानां तत्तद्देशादिष्वनन्ततज्जनकत्वानां च कल्पनायां महागौरवात् / नयनक्रियाभिमुख्यस्य रूपादावपि सम्भवे बाधकाभावाद् द्रव्यतत्समवेतादिसाधारणचाक्षुषं प्रत्येकहेतुत्वे लाघवाच्च / लोहोपलस्य लोहाकर्षकत्वमिवाप्रत्यासन्नस्यापि चक्षुषश्चाक्षुषजनकत्वमित्यप्याहुः, तेषामपि सम्बन्धविशेषाश्रयणमावश्यकम् / अन्यथाऽतिप्रसङ्गात् तथाचैवं प्रयुञ्जत नयनं योग्यदेशावस्थिताऽप्राप्तार्थपरिच्छेदकम्, प्राप्तिनिबन्धनानुग्रहोपघातशून्यत्वात्, मनोवदिति, वनस्पतिसूरालोकनादिना नयनानुग्रहोपघातोदयात् व्यभिचारवारणाय प्राप्तिनिबन्धनेति विशेषणम् / तदुपघातस्य प्राप्तिनिमित्तकत्वे नयनस्य जलानलसंयोगेन क्लेददाहापत्तेः। अथ मनसोऽपि घटदिनाऽलौकिकज्ञानादिप्रत्यासत्तिसत्त्वात् साध्यविकलो दृष्टान्त इति चेत्-न; संयोगप्रत्यासत्यापरिच्छेदकत्वाभावस्यैव सिषाधयिषितत्वात् / न चात्ममानसत्वावच्छिन्नं प्रति संयोगेनैव मनसो हेतुत्वात् न किञ्चिदेतद् इति वाच्यं; पूर्वं तदप्राप्यकारित्वं प्रसाध्य दृष्टान्तत्वाभिप्रायात् / एवं च मनस इव चक्षुषस्तत्तदुपयोगसाचिव्यात्तदा तदा तत्तदर्थग्राहकत्वं स्वभावदेवेत्यपि प्राञ्चः। स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचीवृत्तित्वसम्बन्धेन विजातीयद्रव्यत्वेनास्तु भित्त्यादीनां प्रतिबन्धकता, प्रतिबन्धकतावच्छेदकसम्बन्धाननुगमश्च न दोषाय तावत्सम्बन्धपर्याप्तप्रति-योगितावच्छेदकताकविलक्षणाभावस्यैकस्य कारणतास्वीकारात् / तथा च भित्त्यादीनां प्रतिबन्धकत्वादेव न तदन्तरितार्थग्रहणमिति किं योग्यतयेति कश्चित्, तन्न, पृथिवीत्वादिना साङ्कर्येण विजातीयद्रव्यत्वेन