________________ सन्दर्भग्रन्थाः स्यादेतत्-भित्त्यादिव्यवहितार्थस्य न स्वरूपायोग्यत्वं, कालान्तरे तस्यैव प्रत्यक्षसम्भवात् / किन्तु भित्त्यादेश्चक्षुःप्राप्तिविघातकतया विरोधित्वादेव न तदन्तरितार्थग्रहणम् / एवमतिसान्निध्यस्यापि दूरत्ववद्दोषत्वेन प्रतिबन्धकत्वात् न नयनाञ्जनादिलौकिकचाक्षुषम् / यत्तु विजातीयचक्षुःसंयोगत्वेन हेतुत्वादेव न दूरस्थलौकिकचाक्षुषम्, इति,-तन्त्र, सति विशेषदर्शनादौ, दूरस्थस्यापि लौकिकचाक्षुषदर्शनात् / मैवम्; अननुगतत्तत्तदोषाणां तत्तत्प्रत्यक्षप्रतिबन्धकत्वकल्पनापेक्षया सामान्यतः सूक्ष्मव्यवहितार्थप्रत्यक्षे ज्ञानावरणकर्मविपाकोदयविशेषस्यैव प्रतिबन्धकत्वकल्पनौचित्यात्; वस्तुतश्चक्षुषः प्राप्यकारित्वे शाखाचन्द्रमसोयुगपद्ग्रहणानुपपत्तिः / अथ क्रमिकत्वमेव तद्ज्ञानयोः, यौगपद्यप्रत्ययस्य शतपत्रशतपत्रीवेधव्यतिकरण भ्रमत्वादिति चेत् न; तथा सति ततः साक्षात्करोमीत्यनुव्यवसायस्य तयोरनुपपत्तेः / तदनुव्यवसायसमये शाखाज्ञानस्य नष्टत्वात् / न च शाखाचन्द्रयोः क्रमिकज्ञानाहितसंस्काराभ्यां जनितायां समूहालम्बनस्मृतावेवानुभवत्वारोपात्तथानुव्यवसायो यथा पञ्चावधानस्थले इति वाच्यम्, उपेक्षात्मक तद्ज्ञानतस्तादृशस्मृत्यसम्भवात् / तव लौकिकसन्निकर्षजन्यज्ञानस्यैव विषयतया 'साक्षात्करोमि इत्यनुव्यवसायजनकत्वाच्च / यत्तु-स्फटिकादिकमुपभिद्य नयनरश्मिप्रसरणं प्रत्यभिज्ञानां दुरभ्युपगमम् इति / तत्तु-विकटकपाटसम्पुटसङ्घटितमपवरकमुपभिद्य मृगमंदसन्दोहसमागमसमसमाधानम्, इति कश्चित् / ' : वस्तुतो मृगमदसंसर्गारब्धसुगन्धिद्रव्याण्येव बहिरनुभूयन्ते / अन्यथा बंहीयसा कालेन बंहीयसा वायुना तदवयवानां भूयसामपगमे तद्गुरुत्वप्रच्यवापातात् / तथा च स्फटिकादिनाऽपि प्रतिबन्धात् नयनरश्मीनां कथं बहिर्निर्गमः ! अत एव काचकूपिकादितस्तच्छायद्रव्यान्तरारम्भोऽपि तत्र तत्र व्यावर्णितः / ___ अपि च नयनस्य तैजसत्वाऽसिद्ध्या तद्रश्मय एव कुतस्त्याः ! न च चक्षुः तैजसम् रूपादिषु रूपस्यैवाभिव्यञ्जकत्वादालोकवत्, इत्यनुमानात् चक्षुषस्तैजसत्वसिद्धिः / न चाञ्जनेनव्यभिचारस्तस्य चाक्षुषप्रयोजकत्वेऽपि तदजनकत्वादिति वाच्यम्; अप्रयोजकत्वात् / अनुद्भूतरूपानुद्भूतस्पर्शतेजोन्तरकल्पने गौरवाच्च / अत एवेन्द्रियत्वं जन्यसाक्षात्कारत्वावच्छिन्नजनकतावच्छेदकः पृथिव्याद्यवृत्तिरेव जातिविशेष इति यौगैकदेशिनः / तेषामपि चक्षुःसंयोगत्वेन हेतुतासिद्ध्यैव चक्षुः प्राप्यकारित्वसाधनाभिकाङ्क्षा सम्पूर्येत, सैव तु नास्त्यत्र, 'तद्धेतोरेवास्तु किं तेन' इति न्यायात्, चक्षुःसंयोगत्वावच्छिन्ननियामकादेव चाक्षुषदेशविषयप्रतिनियमसम्भवात् / एतेनयोग्या चेद्योग्यता वः सपदि जनयितुं ज्ञानमक्ष्णोऽनपेक्षः, कस्मादस्माकमाकस्मिक इव न तदा हन्त वस्तूपलम्भः / आयासं कः प्रकुर्यादनणुमणिविभापूरिते गेहदेशे, प्रद्योतार्थी प्रदीपं प्रकटयितुमलं तैलसम्पूरणादौ // 1 //