________________ विभाग-१ इन्द्रियत्वेन साक्षात्कारं प्रतिहेतुत्वे चक्षुः संयोगेनान्धकारस्थघटदिसाक्षात्कारापत्तेः, एवं सति चक्षुषो रश्म्यप्रसिद्ध्या प्राप्यकारित्वमपि दुरुपपादम् / ननु किञ्चिदवच्छेदेन तम:प्रच्छन्नेऽपि भित्त्यादौ यदवच्छेदेन चक्षुःसंयोगस्तदवच्छेदेनालोकसंयोगादेव चाक्षुषदर्शनाच्चक्षुषः प्राप्यकारित्वं सेत्स्यतीति चेत्, एतन्निपुणतरमन्धकारवादे प्रतिविधास्यामः / एवं च शाखाभिमुखेन चक्षुषा विटपिनो मूलावच्छिन्नसंयोगग्रहाभावादव्याप्यवृत्तिचाक्षुषं प्रति चक्षुः संयोगावच्छेदकाविच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतायाः सन्निकर्षत्वस्यावश्यकल्पनीयतयाचक्षुषः प्राप्यकारित्वमायास्यतीत्यपि प्रतिविधातव्यप्रायं वेदितव्यं, तदानीं चक्षुरभिमुखदेशविष्वग्भावाभावादेव संयोगादिचाक्षुषानुदयात्, 'स्वं पुण पासई अपुटुं तु' (आ.नि.गा. 5) इत्याद्यागमोप्यत्रार्थे साक्षीति दिग् / // बृहत्स्याद्वादरहस्यम् // वैशद्यवद्ज्ञानं प्रति योग्यताविशेषस्य हेतुत्वाच्चक्षुषोऽप्राप्यकारित्वात्, अथ चक्षुषोऽप्राप्यकारित्वमेव न क्षमिति चेत् शृणु: प्रसङ्गसङ्गतमथ प्रथमानविशुद्धधीः / चक्षुरप्राप्यकारित्वं ब्रूते न्यायविशारदः // 1 // तथा हि-जन्यसाक्षात्कारत्वावच्छिन्नं प्रतीन्द्रियसम्बन्धत्वेन तावन्न हेतुता इन्द्रियसम्बन्धत्वस्यैकस्यासम्भवात् / एतेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसम्बन्धत्वेन हेतुताऽपि परास्ता। , अथ द्रव्यचाक्षुषत्वाद्यवच्छिन्नं प्रति चक्षुःसंयोगत्वादिना विशिष्यैव हेतुता / तदुक्तं मणिकृता प्रत्यक्षविशेष इन्द्रियार्थसन्निकर्षविशेषो हेतुरनुगत एवेति इति चेत्-न, चक्षुःसंयोगस्यापि परमाण्वाकाशादौ व्यभिचारेण चाक्षुषं प्रति हेतुत्वायोगात् महत्त्वसमानाधिकरणोद्भूतरूपस्यापि तत्र सहकारित्वात्, नायं दोष इति चेत्, न, उद्भूतरूपसमानाधिकरणमहत्त्वत्वेन सहकारित्वेऽपि विनिगमकाभावात् / अथ पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पत्तिरेवोद्भूतरूपविशिष्टमहत्त्वस्यैव द्रव्यचाक्षुषहेतुत्वे विनिगमिकेति चेत्-न, तत्र रूपनाशक्षण एव चाक्षुषं न तु तदुत्तरोपजायमानरूपोत्तरम् इत्यस्य कोशपानप्रत्यायनीयत्वात् / अथ महत्त्वोद्भुतरूपयोः पृथगेवास्तु कारणता, महत्त्वजन्यतावच्छेदकं च जन्यद्रव्यसाक्षात्कारत्वम्, अत एवात्मसाक्षात्कार एवात्मनि महत्त्वे मानम् / उद्भूतरूपजन्यतावच्छेदकं च द्रव्यचाक्षुषत्वमिति चेत्, तथापि चक्षुर्गोलकपरिकलिताञ्जनाद्यप्रत्यक्षं किमधीनम् ! योग्यताऽभावाधीनमिति चेत्, तर्हि पाटच्चरविलुण्टिते वेश्मनि यामिकजागरणवृत्तान्तानुसारणम्, भित्त्याद्यन्तरिताप्रत्यक्षस्यापि योग्यताविरहेणैवोपपत्तौ व्यवहितार्थाप्रकाशकत्वान्यथानुपपत्त्या चक्षुःप्राप्यकारित्वसाधनमनोरथस्य दूरप्रोषितत्वात् /