________________ सन्दर्भग्रन्थाः संयोगेन चक्षुषश्चाक्षुषं प्रति हेतुत्वे प्रागुक्तकारणत्वकल्पनागौरवं फलमुखत्वान्न दोषायेति,-तन्न; संयोगादिप्रत्यासत्तीनामननुगमेन ताभिस्तस्य चाक्षुषं प्रत्यकारणत्वात्, सम्बन्धाननुगमस्यापि स्वघटितव्याप्तिघटितकारणता भेदकतया दोषत्वात् कालिकेनैव चक्षुषश्चाक्षुषं प्रति हेतुत्वस्य तवाप्यवश्यमभ्युपगन्तव्यत्वात्, स्वप्राचीस्थपुरुषसाक्षात्कारे स्वप्रतीचीवृत्त्यन्यूनपरिणामकाऽतिस्वच्छभिन्नस्वप्रतीचीवृत्तित्वसम्बन्धेन सत्त्वेनास्तु भित्त्यादीनां प्रतिबन्धकता, प्रतिबन्धकतावच्छेदकसम्बन्धाननुगमश्च न दोषाय, तावत् सम्बन्धपर्याप्तप्रतियोगितावच्छेदकताकविलक्षणाभावस्य कारणत्वस्वीकारात् / तथा च न चक्षुरप्राप्यकारित्वेऽपि भित्त्यादिव्यवहितोपलब्धिप्रसङ्ग इति कश्चित्तदसत्, तेन सम्बन्धेन द्रव्यत्वमूर्त्तत्वादिना प्रतिबन्धकत्वे विनिगमकाभावाद् व्यवहितेऽपि योगिचाक्षुषानुरोधेन योग्यताया अवश्याश्रयणीयत्वाच्च / योग्या चेद्योग्यता वः सपदि जनयितुं ज्ञानमणोऽनपेक्षः, कस्मादस्मास्माकस्मिक इव न तदा हन्त वस्तूपलम्भः; आयासं कः प्रकुर्यादणुमणिविभाभूषिते भूमिभागे, प्रद्योतार्थी प्रदीपं प्रकटयितुमलं तैलसंपूरणादौ // 1 // योग्यता वस्तुनो बोधे स्मृता प्रतिनियामिका / उपधानं पुनस्तस्य चक्षुरुमोलनादिना // 2 // कालिकेन नयनं यदि हेतुर्मीलिताक्षिण न हि पुंसि कुतो धीः / इत्थमालपति वेद न यौगस्त्वाभिमुख्यमिह चेत्थममुष्य // 3 // यदाभिमुख्यं किल नोपकारकं प्रक्लृप्तसंयोगनियामकं धियः / इहास्मि नास्मिन्नियमे स्पृहावहः कृतान्तकोपस्तु तवैव केवलम् // 4 // यत्र यत्र परिसर्पति चक्षुस्तत्र तत्र किल वेदनजन्म / गौतमीयसमये तदिदानीं प्राप्यकारिणि न चक्षुषि साक्षि // 5 // यत्तु स्फटिकादिकं भित्त्वा नयनरश्मिप्रसरणं प्रत्यभिज्ञाभिज्ञानां दुरभ्युपगममिति, तत्तु विकटकपाटसंपुटसंघटितमपवरकमुपभिद्य प्रसृमरमृगमदपरिमलाभ्युपगमसमसमाधानमिति केचित् / वस्तुतो नयनस्य तैजसत्वासिद्ध्या तद्रश्मय एव न सम्भवन्ति / न च चक्षुस्तैजसं द्रव्यत्वे सति रूपादिषु मध्ये रूपस्यैवाभिव्यञ्जकत्वादित्यनुमानाच्चक्षुषस्तैजसत्वसिद्धिः / न चाञ्जनेन व्यभिचारस्तस्य चाक्षुषप्रयोजकत्वेऽपि तदजनकत्वादिति वाच्यम् / अप्रयोजकत्वात् / नैयायिकैकदेशिनस्तु इन्द्रियत्वं पृथिव्याद्यवृत्तिर्जन्यसाक्षात्कारत्वावच्छिन्नजनकतावच्छेदको जातिविशेष इत्याहुः नेत्यन्ये,