________________ "सन्दर्भग्रन्थाः " विभाग-१ मध्यम स्याद्वादरहस्य - चक्षुषोऽप्राप्यकारित्वमेव न सहामहे इति चेत् ? शृणु / प्रसंगसंगतमथ प्रथमानातिशुद्धधीः / चक्षुरप्राप्यकारित्वं ब्रूते न्यायविशारदः // .. तथाहि चक्षुषः प्राप्यकारित्वं तावद् व्यवहितार्थाप्रकाशत्वान्यथानुपपत्त्या परैः परिकल्प्यतेतदयुक्तम्, चक्षुः संयोगस्यापि परमाण्वाकाशादौ सत्त्वाद् व्यभिचारेण चाक्षुषं प्रति हेतुत्वायोगात् / महत्त्वसमानाधिकरणोद्भूतरूपस्यापि तत्र सहकारित्वान्नायं दोष इति चेत्, न, उद्भूतरूपस्याप्यवच्छेदकत्वसम्भवेन विनिगमनाविरहात् / अथ पाकेन रूपनाशक्षणेऽपि घटादिचाक्षुषोत्पत्तिरेव समानाधिकरण्येनोद्भूतरूपविशिष्टमहत्त्वस्यैव हेतुत्वे विनिगमिकेति चेत्, न, तत्र रूपनाशक्षण एव चाक्षुषं न तु तदुत्तरोपजायमानरूपोत्तरमित्यस्य कोशपानप्रत्यायनीयत्वात् / अथ महत्त्वोद्भूतरूपयो: पृथगेवास्तु कारणता, महत्त्वजन्यतावच्छेदकं च जन्यद्रव्यसाक्षात्कारत्वमेव, अत एवात्मसाक्षात्कार एवात्मनि महत्त्वे मानम् ! उद्भूतरूपजन्यतावच्छेदकं च द्रव्यचाक्षुषत्वमेवेति चेत्, तथापि चक्षुर्गोलकपरिकलिताञ्जनाद्यनुपलब्धिः किमधीना योग्यताऽभावाधीनेति चेत्, तर्हि पाटच्चरविलुण्टिते वेश्मनि यामिकजागरणवृत्तान्तानुसारणं, भित्त्याद्यन्तरितानुपलब्धेरपि योग्यत्वाभावेनैवोपपत्तौ चक्षुःप्राप्यकारित्वपथिकस्य दूरप्रोषित्वात् / स्यादेतत् भित्त्यादिव्यवहितार्थस्य न स्वरूपायोग्यत्वं, कालान्तरे तस्यैवोपलम्भदर्शनात् किन्तु भित्त्यादेश्चक्षुःप्राप्तिविघातकतया विरोधित्वादेव न तदन्तरितार्थग्रहणमिति, मैवं, भित्त्यादिव्यवहितस्यापि योगिना चक्षुषा ग्रहात्, सूक्ष्मव्यवहितार्थज्ञाने ज्ञानावरणकर्मविपाकोदयविशेष एव हि प्रतिबन्धको वाच्यस्तदभाव एव च योग्यतात्मनिष्ठा सूक्ष्मव्यवहितार्थज्ञानजननीति गीयते / ननु स्फटिकाद्यन्तरितोपलब्धौ तादृशयोग्यताऽभावाद्व्यभिचार इति चेत्, न, स्फटिकाद्यन्तरितोपयोगस्योत्तेजकत्वात्, उपयोगश्चोपलिप्सोराभोगकरणम् इति विशेषावश्यकवृत्तौ, व्यवहितत्वं च स्वाभिमुखपराङ्मुखत्वादिकम्, अस्तु वा विशिष्यैव प्रतिबध्यप्रतिबन्धकभावस्तथाऽपि परेषामनन्तचक्षुःसंयोगेषु तत्तद्देशानां तत्तत्क्रियाणां च कारणत्वकल्पनापेक्षया लाघवमेव / यत्तु