________________ 28 श्री चक्षुरप्राप्यकारितावादः __ एतेन यदुक्तं रश्मिवच्चक्षुः तैजसत्वात् इति तत् प्रत्याख्यातम्, उक्तपक्षदोषाणामत्रापि अविशेषात् / किञ्च, रश्मिवत्ता गोलकरूपस्य चक्षुषः साध्यते तद्व्यतिरिक्तस्य वा / न तावत् तद्व्यतिरिक्तस्य, तस्यासिद्धस्वरूपत्वाद् अपसिद्धान्तप्रसङ्गाच्च / गोलकरूपस्य तु तत्साधने पक्षस्य प्रत्यक्षबाधा, प्रभासुर-प्रभारहितस्य गोलकस्य प्रत्यक्षतः प्रतीतेः / अथ अदृश्याः तद्रश्मयः, अनुद्भूतरूपस्पर्शत्वात् / अतो न अस्य प्रत्यक्षबाधा / कथमेवं रूपप्रकाशकत्वं तस्य स्यात् ? तथाहि-चक्षू रूपप्रकाशकं न भवति, अनुद्भूतरूपत्वात्, जलसंयुक्तानलवत्। न च अनुद्भूतरूपस्पर्शं तेजोद्रव्यं क्वचित् प्रतीयते / जलहेम्नो सुररूपोष्णस्पर्शयोरनुद्भूतप्रतीतिरस्ति इत्यपि असम्यग्, उभयानुद्भूतेस्तत्राप्यप्रतिपत्तेः / दृष्टानुसारेण चादृष्टार्थकल्पना / अन्यथा पृथिव्यादेरपि तद्वत्ताप्रसङ्गः / तथाहि-रश्मिवन्तः पृथिव्यादयो द्रव्यत्वात्, प्रदीपवत् / यथा एव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा द्रव्यत्वमपि / अथ ततस्तेषां तत्साधने प्रत्यक्षविरोधः / सोऽन्यत्रापि समानः / अथ मार्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते रश्मयः कथं तद्विरोधः ? यदि नाम तत्र तेऽन्यत्र किमायातम ? अन्यथा हेम्नि पीतत्वस्य सुवर्णत्वेन व्याप्तिप्रतिपत्ते: पटादौ पीतत्वोपलम्भात् सुवर्णत्वसिद्धिः स्यात्, प्रत्यक्षबाधोऽन्यत्रापि / रश्मिवत्त्वे चास्यार्थप्रकाशने आलोकापेक्षा न स्यात् / तथाहि-यद् रश्मिवत् तद् अर्थप्रकाशनेनालोकापेक्षं, यथा प्रदीपो, रश्मिवच्च भवद्भिरभिप्रेतं चक्षुरिति / तथा तद्वत्त्वे स्वसम्बद्धस्याञ्जनादेः प्रकाशकत्वप्रसङ्गः / तथाहि-यद्रश्मिवत् तत्स्वसम्बद्धमर्थं प्रकाशयति एव, यथा प्रदीपः, रश्मिवच्चक्षुः, तस्मात् स्वसम्बद्धं कामलादिकं प्रकाशयेदेव / यदपि 'तैजसत्वाद्' इति साधनमुक्तं, तदप्ययुक्तम्, असिद्धत्वात् / तदसिद्धत्वं च कुतश्चित्प्रमाणात् तत्र तस्य अप्रतीतेः / तद्धि गोलकरूपस्य चक्षुषोऽभ्युपगम्येत रश्मिरूपस्य वा ? / यदि गोलकस्वरूपस्य, तदाध्यक्षबाधा, भासुररूपोष्णस्पर्शरहितस्याऽध्यक्षतः प्रतीतेः / अनुमानबाधश्च तथाहि-चक्षुः तैजसं न भवति, भासुररूपोष्णस्पर्शरहितत्वाद्, यदेवं तदेवं, यथा मृत्पिण्डादिः तथा च इदम्, तस्मात् तथा इति / तथा न तैजसं चक्षुः, तमःप्रकाशकत्वात्, यत्पुनः तैजसं तन्न तम:प्रकाशकं, यथा आलोकः, तमःप्रकाशकं च चक्षुः, तस्मान्न तैजसमिति / रश्मिरूपस्य तु चक्षुषोऽसिद्धरूपत्वान्न तैजसत्वमुपपद्यते / यदपि रूपादीनां मध्ये स्पस्यैव प्रकाशकत्वादिति तत् तैजसत्वे साधनमुक्तं तदपि जलाञ्जनचन्द्रमाणिक्यादिभिरनैकान्तिकम् / न च एतद् वक्तव्यम् जलादीन् प्रतिगत्वा व्यावृतानां चक्षुरश्मीनामेव तत्प्रकाशकत्वं न जलादीनामिति / सर्वत्रदृष्टहेतुवैकल्यापत्तेः / तथा च