________________ श्री चक्षुरप्राप्यकारितावादः दृष्टान्तासिद्धिः। प्रदीपादावप्यन्यस्यैव तत्प्रकाशकत्वप्रसङ्गात् / प्रत्यक्षबाधनमुभयत्र / अतश्चक्षुषः कुतश्चित् तैजसत्वासिद्धेः कथं रश्मिवत्त्वं सिद्धये० यतः प्राप्यकारित्वं स्यात् / किञ्च, अस्य प्राप्यकारित्वे विषयश्चक्षुर्देशम् आगच्छेच्चक्षुर्वा विषयदेशं ? तत्राद्यविकल्पे प्रत्यक्षबाधा, चक्षुःप्रदेशे विषयस्य पर्वतादेरागमनाप्रतीतेः। द्वितीयपक्षेऽध्यक्षविरोधः, विषयं प्रति चक्षुषो गमनाप्रतीतेः / चक्षुर्गत्वा नार्थेनाभिसम्बध्यते, इन्द्रियत्वात्, त्वगादिवद्, इत्यनुमानविरोधश्च। तदविशेषेऽपि दृष्टातिक्रमेण कस्यचित् तत्र गत्वा सम्बन्धाभ्युपगमे यथा प्रतीत्यसम्बन्ध एव किं नाभ्युपगम्यते / अलं प्रतीत्यपलापेन। किञ्च, चक्षुर्गत्वा संयुज्यार्थं चेत् द्योतयति, तर्हि यथा विप्रकृष्टस्यादित्यार्दे संयुक्तसमवायाद् रूपं द्योतयति, एवं कर्मापि द्योतयेत् / संयुक्तवसमवायाविशेषात् / कथं च एवं वादिनः काचाभ्रपटलस्वच्छोदकस्फटिकाद्यन्तरितार्थनामुपलम्भः स्यात्, चक्षुषः तत्र गच्छतः काचाद्यवयविना प्रतिबन्धात् / अथ काचादिकं भित्त्वा चक्षुरश्मयोऽर्थदेशं गच्छन्ति, तर्हि तद्व्यवहितार्थोपलम्भसमये काचादेरनुपलम्भः तदाधेयद्रव्यस्य पातश्च स्यात्, तदाधारस्य नाशात् / न चैवं / युगपत् तयोः निरन्तरं समुपलम्भात् / एतेन 'शाखाचन्द्रमसोः क्रमेणानुभवेऽपि आशुवृत्त्योत्पल पत्रशतव्यतिभेदवद् युगपत्प्रतिपत्त्यभिमानो भ्रान्तिनिबंधन' इति प्रत्याख्यातम् / . यच्चान्यदुक्तम् 'शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट विप्रकृष्टतोपपत्तेः' इति तदपि श्रद्धामात्रम्, इन्द्रियसनिकर्षेणास्य प्रतिपत्तौ तथा तद्व्यवहारानुपपत्तेः / तथाहि-यदिन्द्रियसन्निकर्षण प्रतीयते, न तत्र दूरनिकटदिव्यवहारः, यथा रसादौ, इन्द्रियसन्निकर्षेण प्रतीयते च चक्षुर्विषय इति / प्राप्यकारित्वे च चक्षुषः संशयविपर्ययानुपपत्तिः / सामान्यवद् विशेषाणामपि सन्निकृष्टानामुपलम्भसम्भवात् / विशेषानुपलब्धिनिमित्तो हि संशयो विपर्ययश्चेतिन प्राप्यकारित्वं चक्षुषो घटते / नचाप्राप्यकारित्वे सकलार्थप्रकाशकत्वप्रसङ्गः, योग्यदेशापेक्षणाद्, अयस्कान्तवत् / न ह्यस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानः सर्वस्यायसस्तथाविधस्याकर्षणे अपि तु योग्यदेशस्थस्यैव / भवतोऽपि चक्षू रश्मयो लोकान्तं गत्वा किमिति रूपं नप्रकाशयन्ति / चक्षुर्वा संयुक्तसमवायाद् यथा रूपं प्रकाशयति तथा गन्धादिकमपि किमिति न प्रकाशयेत्, तत्रापि तस्याविशेषादिति चोद्ये योग्यतैव शरण्यम् / ___ यदपि 'कारकत्वादि'त्युक्तं तदपि मनसाऽयस्कान्ताञ्जनतिलकमन्त्रादिना चानैकान्तिकम्, तस्य कारकत्वेऽप्यप्राप्यकारित्वात् / इति सिद्धं चक्षुषोऽप्राप्यकारित्वमिति /