________________ श्री चक्षुरप्राप्यकारितावादः // अज्ञातकर्तृकचक्षुरप्राप्यकारितावादः // (अद्यावधि अप्रकटः) ननु प्राप्यकारि चक्षुः, बाह्येन्द्रियत्वात्, यद् बाह्येन्द्रियं तत् प्राप्यकारि प्रतिपन्नं, यथा त्वगादि / बाह्येन्द्रियं च चक्षुः, प्राप्यकारि / तस्मात् 'प्राप्यकारित्वे चक्षुषो महतः पर्वतादेरप्रकाशप्रसङ्गः' इति न वाच्यम्। धत्तूरकपुष्पवदादौ सूक्ष्माणामप्यन्तेमहत्त्वोपपत्तेः तद्रश्मिनाम् / ते हि आलोकमिलिता यावदर्थं वर्द्धन्ते / महतः पर्वतादेः प्रकाशकत्वान्यथानुपपत्तेः / / न च रश्मिवत्त्वं चक्षुषोऽसिद्धम्, तत्साधकप्रमाणसद्भावात् / तथाहि-रश्मिवच्चक्षुः, तैजसत्वात्, प्रदीपवत् / न चेदमप्यसिद्धम्, तत एव / तथाहि तैजसं चक्षुः, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् / तद्वदेव / ननु चक्षुषः प्राप्यकारित्वे कथं शाखाचन्द्रमसोयुगपद्ग्रहणम् ? इत्यपि वार्तम्, युगपद्ग्रहणस्यासिद्धत्वात् / प्रथमतो हि चक्षुः सन्निकृष्टां शाखां प्राप्य प्रकाशयति पश्चाद् विप्रकृष्टं चन्द्रमसम् / युगपत्प्रतिपत्त्यभिमानस्तूत्पलपत्रशतव्यतिभेदवद् भ्रान्तिनिबन्धनः / दूरनिकटादिव्यवहारोऽपि चक्षुषः प्राप्यकारित्वे न दुर्घटः / शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्टविप्रकृष्टतोपपत्तेः। यदि चाप्राप्यकारि चक्षुः स्यात् तर्हि कुड्याद्यव्यवहितवत्तद्व्यवहितस्यापि घटादेर्मेर्वादेश्चानेकयोजनशतव्यवहितस्यापि तत् प्रकाशकं स्यात् / क्वचित्प्रत्यासत्तिविप्रकर्षाभावात्, न चैवम्, अतः प्राप्यकारि तत् प्रतिपत्तव्यम् / कारकत्वाच्च / यत्कारकं तत्प्राप्यकारि, यथा वास्यादि, कारकं च चक्षुरिति / ___अत्र प्रतिविधीयते / यत्तावदुक्तं 'प्राप्यकारि चक्षुरिति,' तत्र धर्मित्वेन उपात्तं चक्षुगोलकस्वभावं, रश्मिरूपं वा। प्रथमपक्षे प्रत्यक्षविरोधः / अर्थेना सम्बद्धस्य अर्थदेशपरिहारेण शरीरप्रदेश एव गोलकस्वभावचक्षुषः प्रत्यक्षतः प्रतीतेः / द्वितीयपक्षे तु धर्मिणोऽसिद्धिः / रश्मिरूपस्य चक्षुषः कुतश्चित् प्रमाणादप्रसिद्धः / तत् साधकं हि प्रमाणं प्रत्यक्षमनुमानं वा स्यात् / न तावत् प्रत्यक्षमर्थवत् तत्र, तत्स्वरूपाप्रतीतेन खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते, विप्रत्तिपत्त्यभावप्रसङ्गात् / न हि नीले नीलतया प्रतीयमाने कश्चिद् विप्रतिपद्यते / किञ्च, इन्द्रियार्थसन्निकर्षजं प्रत्यक्षं भवन्मते / न च अर्थदेशे विद्यमानैस्तैरपरेन्द्रियस्य सन्निकर्षोऽस्ति यतस्तत्र प्रत्यक्ष मुत्पद्येत, अनवस्थाप्रसङ्गात् / अनुमानतोऽप्यत एव अन्यतो वा तत्सिद्धिः स्यात् ? यद्यत एव, अन्योन्याश्रयः प्रसिद्ध हनुमानोत्थानेऽतस्तत्सिद्धिः, अस्याश्चानुमानोत्थानमिति / अनुमानान्तरात् तत्सिद्धावनवस्था धर्मिणः तत्रापि अनुमानान्तरात् सिद्धिप्रसङ्गात् /