________________ विभाग-६ 213 व्यवहितसितकरतरणितारकादि ग्रहितुं शक्येत / कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेण महियसापि मिहिरमहसा न प्रतिहतगति भवेदध्यक्षमिति भास्करदर्शनमित्थं न सम्पद्येत ? तेज:पक्षे च काचाभ्रकपटलस्फटिकान्तरितपदार्थोपलब्धिः कथं समर्खेत ? तत्प्रतिबद्धं हि तेजः कथं प्रतिष्ठेतेति / तद्वरं शक्तिविशेषयुक्तं गोलकमेव साधो ! चक्षुरभ्युपगच्छेति / उच्यते / न खलु भवदनुशासनेन युक्तिविरुद्धपक्षमभ्युछामः / प्राप्यकारि हि कारकं दृष्टं कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्तायां न गोलकमात्रमाश्रयोक्तराश्रयो भवेत् / चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता, अनुपलभ्यमानं तेज इति चेत्, किं चन्द्रमसः परभाग .. उपलभ्यते पृथिव्याश्चाधोभागः ? न खलु प्रत्यक्षैकशरणाः पदार्थाः, अनुमानादिभिरेषामुपलम्भः सम्भवत्येव / उक्तञ्चानुमानं रुपोपलब्धिकार्येण तैजसमेव चक्षुरनुमीयते, तेजोद्रव्यं हि दीपादि रुपस्य प्रकाशकं दृष्टमिति / प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत इति, तदुच्यते विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति / तद् यथा सर्वतः प्रसारता धवलबहलेनं शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतू भवतः, निराधारस्य शीतस्पर्शगुणस्यानुपपत्तेः / अथ सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलब्धिर्न शुक्लरुपस्येति / तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्मो भवति / तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणं न भास्वररुपस्येति / भास्वरञ्च कार्तस्वरादौ तैजसद्रव्ये रुपमुपलभ्यते नोष्णस्पर्शः / उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुण उष्णस्पर्शोऽनुभूयते, न भास्वरं रुपमिति / एवमिह नयमरश्मौ तैजसे द्रव्ये द्वावपि रुपस्पर्शी नोपलभ्येते इति कमुपालभेमहि / उक्तञ्च दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः, प्रमाणस्य तत्वविषयत्वात् इति / न च सर्वत्र नयनरश्मेरनुपलम्भः / क्वचिद्धि वृषदंशप्रभृतीनां नक्तञ्चराणां निशि निबिडतमतमःपङ्कपटलावलिप्ते वेश्मनि सञ्चरतां चाक्षुषं तेजोभास्वरं रुपं दूरमपि प्रसरदुपलभ्यत एव / अन्यत्र तु मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः / अयन्तु विशेषः उल्कारुपस्य दिवा दिवाकरकरविभवाभिभूतत्वादग्रहणं नयनरश्मिरुपस्य त्वनुद्भूतत्वादेवेति / यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्भनम्, तत्र काचादीनां केषाञ्चिदतिस्वच्छत्वात् केषाञ्चिच्च ससुषिरत्वाच्चाक्षुषतेजः प्रसरनिरोधकौशलं नास्तीति प्राप्यकारित्वं चक्षुषस्तावता भवति /