________________ 212 सन्दर्भग्रन्थाः उने // नन्वयस्कान्तस्येत्यादि / अयस्कान्तश्चेदप्राप्यकारी तदा कारणत्वादिति हेत्वन्तरमपि प्राप्यकारित्वसाधनायोपन्यस्तमनैकान्तिकमित्यर्थः // न च कृष्णसारस्येत्यादि / यदि हि कृष्णसारमण्योत्तयोऽङ्गीक्रियन्ते, तदा तासामर्थेन लोहेन च निरन्तरोत्पादः स्यात् / आचरतीति / कुर्वाणे / स्थिरनये इति / एतेनास्थिरमते तावत् कार्यं जनयन्ति, कारणानि परस्परप्राप्तिं न व्यभिचरन्तीति व्यवस्थापितमिति ज्ञापितम् / // न्यायमञ्जरी // ___ ननु सन्निकर्षावगमे किं प्रमाणम् ? व्यवहितानुपलब्धिरिति ब्रुमः / यदि ह्यसन्निकृष्टमपि चक्षुरादीन्द्रियमर्थ गृह्णीयाद् व्यवहितोऽपि ततोऽर्थ उपलभ्येत, न चोपलभ्यते, तस्मादस्ति सन्निकर्षः / ___ नन्वव्यवधानमेवास्तु किं सन्निकर्षेण ? मैवम् / इन्द्रियाणां कारकत्वेन प्राप्यकारित्वात् संसृष्टञ्च कारकं फलाय कल्पत इति कल्पनीयः संसर्गः / एतच्चेन्द्रियपरिक्षाप्रसङ्गे निपुणं निर्णेष्यत इति नेह विविच्यते / रसनस्पर्शनयोश्च स्पष्टं प्राप्यकारित्वमुपलभ्यत इति तत्सामान्याविन्द्रियान्तरेष्वपि कल्पनीयमिति। . एवं हि साङ्ख्याः सम्प्रवदन्ते आहङ्कारिणीन्द्रियाण्यर्थं साधयितुमर्हन्ति, नान्यथा / तथा हि कारकं कारकत्वादेव प्राप्यकारी भवति, भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः? आहङ्कारिकाणान्तु तेषां व्यापकत्वाद् विषयाकारपरिणामात्मिका वृत्तिवृत्तिमतोमान्या सती सम्भवत्येवेति सुवचं प्राप्यकारित्वम् / अपि च महदणुग्रहणमाहङ्कारिकत्वे तेषां कल्पते न भौतिकत्वे यत्परिमाणं ग्रहणं तत्परिमाणग्राह्यं गृह्णीयात् / अस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेर्ग्रहणं हीनपरिमाणस्य च वटधानादेरतोऽपि न भौतिकानीन्द्रियाणि / भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् / एवमिन्द्रियाण्यपि पटादिरुपं प्रकाशयन्ति स्वरुपमपि न प्रकाशयन्तीत्यतोऽपि न भौतिकानि / अत्राभिधीयते, यत् तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत नावकल्पत इति जल्पितवानसि, तन्मन्ये त्वया गोलकमेव चक्षुरिति चेतसि गृहीतम्, अन्यथा कथमित्थमकथयिष्यः, स चायम् आयुष्मतो महान् भ्रम / न खलु कृष्णसारं चक्षुस्तदधिकरणन्तु तेजश्चक्षुः, तच्च वेगवद्द्रव्यत्वाद् दूरमपि प्रसरतीति कोऽस्य प्राप्यकारितायां प्रमादः? ननु च गोलके चिकित्सादिप्रयोगाद् गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धे!लकमेव चक्षुः स्यात्, अनुपलभ्यमानञ्च तेजसा वेगवतापि सहसैव विस्फारिते चक्षुषि योजनशतसहस्त्र