________________ 214 सन्दर्भग्रन्थाः यत्तु कुतो नयनरश्मेरियती गतिर्गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति, न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति, उक्तमत्र दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिरिति / कार्यसत्तया हि तथाविधं कारणं कल्प्यते यद् दूरमपि प्रसरति प्रसरदपि परेण न च निरुध्यते / दृष्टश्चानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः, कलशे च निषिक्तानामपां बहि: शीतस्पर्शग्रहणादनिरोधः, एवं नयनरश्मेपि भविष्यति, न तु गोलकस्यैव शक्तिकल्पना लध्वीति वक्तव्यम् प्राप्यकारित्वव्याधातादिति / अत एव सर्वेन्द्रियाणां प्राप्यकारित्वं पश्यद्भिः शास्त्रज्ञैरिन्द्रियार्थसन्निकर्षः षट्प्रकारो व्याख्यातः / प्राप्यकारिता च न गोलकस्योपपद्यते तदप्राप्तस्य पर्वतादेग्रहणात् तत्प्राप्यस्य च प्रत्युताञ्जनशलाकादेरग्रहणादगोलकं चक्षुः / चिकित्सादिप्रयोगस्तु गोलके यः प्रवत्तते / सोऽयमाधारसंस्कार आधेयस्योपकारकः // अत एव गोलकगुणदोषानुवर्तित्वमपि विषयोपलब्धेर्घटमानम्, आधारद्वारकौ हि तदाधेयस्यैव तौ गुणदोषाविति, तस्मादप्राप्तविषयग्रहणानुपपर्तेर्गोलकचक्षुःपक्षो भिक्षुत्प्रेक्षितः प्रेक्षावतां हृदयेषु न विश्राम्यतीति प्राप्यकारि तेज एव चक्षुरिति स्थितम् / // न्यायसारवृत्ति न्यायतात्पर्यदीपिका // . प्रत्यक्षपरिच्छेदः ननु घ्राणरसनस्पर्शनानामस्त्वर्थसम्बन्धस्तत्कृतानुग्रहोपघातदर्शनाच्चक्षुःश्रोत्रयोस्तु कथमग्न्यादिप्रसङ्गेन दहनादिप्रसङ्गात् / शब्दं प्रत्यगमनाच्च / तथा च प्रयोगः / चक्षुःश्रोत्रे न प्राप्य'कारिणी सान्तरग्रहणात् / प्राप्यकारित्वे हि चक्षुरर्थयोः श्रोत्रशब्दयोश्चान्तरालग्रहणं न स्यात्परशुवृक्षवदिति युक्तिसद्भावादिति चेत् / उच्यते प्रमाणात् तथाहि चक्षुःश्रोत्रे प्राप्यार्थं परिच्छिन्दाते बाह्येन्द्रियत्वात् / त्वगिन्द्रियवदिति / प्राप्त्यभावे सर्वार्थोपलम्भः स्यान्न हि प्राप्ति विनाऽन्या काचिद्योग्यतास्ति / यया योग्यदेशावस्थितस्यैव ग्रहणं नान्यस्येति / अत्र बहु वक्तव्यं तत्तु नोच्यते / ग्रन्थविस्तरभयात् // 25 // // पदार्थ रत्नमाला // ___ तेजसं चक्षु रूपग्राहकम् / तदेकस्मिन् शरीरे एकमेव न तु प्रतिगोलकं नाना / गोलकमेव चक्षुरप्राप्यकारी चेति दिङ्नागः यदाह सान्तर ग्राहकं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च / अधिष्ठानाद् बहिर्नाक्षं चिकित्सादि प्रयोगतः // 1 //