________________ 210 सन्दर्भग्रन्थाः अस्येति / कृष्णसारस्य / अतः कार्येऽपीति / न केवलं कृष्णसारोत्पत्तौ कार्यस्योपलम्भत्वक्षणे / तत्कार्यस्येति / संयोगकार्यस्य तदभावादिति प्रादेशिकासमवायिकारणाभावात् / तद्वारेणोपलभ्यमाना इति / शब्देनानुमीयमाना इत्यर्थः / (टीयाम् ) बहिर्वर्तित्वादित्यादि / यदि कृष्णसारमात्रमिन्द्रियमिष्यते, तेन चार्थस्य प्राप्तौ ग्रहणं तदा सान्तरग्रहणं न स्यात् / यदा तु बहिर्वर्त्यपि इन्द्रियमिष्यते तदा कृष्णसारापेक्षया सान्तरग्रहणमुपपन्नमेवेत्यर्थः / ___ न चापातजन्मेत्यादि / कुड्यादिविषयं निर्विकल्पकं सविकल्पकं वा द्रव्यानुमानात् प्रागेव स्यादित्यर्थः / आश्रयाणामिति / शब्दाद्याश्रयाणाम् / विषक्तेति / विशकलिता। समारोपमात्रेणेति / समाश्रयणमात्रेण / (उने) ननु मा भूत् सहान्तरेण ग्रहणमित्यादि / अप्राप्यकारि चक्षुः सान्तरग्रहणादित्यस्य हेतोः सहान्तरेण ग्रहणं सान्तर इति वा ग्रहणमर्थो मा भूत्, उभयस्यापि शरीरासंबद्धग्रहनिमित्तत्वादिति परं शरीरेन्द्रियाधिष्ठानासंबद्धस्य ग्रहणमेव हेतोरर्थो भविष्यति / कुत इत्याह-न ह्ययमन्यथासिद्ध इति / यथा हि सान्तरेण ग्रहणं सान्तरमिति वा ग्रहण.मन्यथा अप्राप्तिमन्तरेणापि शरीरेन्द्रियाधिष्ठानासम्बद्धग्रहणेन सिध्यति, न तथायं शरीरेन्द्रियाधिष्ठानसंबद्धग्रहोऽन्यथा अप्राप्तिमन्तरेण सिद्धो निष्पन्नः, किं त्वप्राप्तिनिमित्तक एवायमित्यर्थः / नन्वयमप्यन्यनिमित्तो भविष्यति तत्कथमप्राप्तो हेत्वर्थ इत्याह-एतस्यैवेत्यादि / एतस्यैव शरीरसंबद्धग्रहणस्यैव इतरोपाधित्वेन इतरस्य सान्तरग्रहणस्योपाधित्वेन कारणत्वेन सान्तरग्रहणं प्रति प्रयोजकत्वात् / एतत्प्रति तु अप्राप्तिमन्तरेण नान्यत्किञ्चित् प्रयोजकमित्यर्थः // टीयाम् // इन्द्रियसंबन्धो भवत्वित्यादि / शरीरसंबन्धाविनाभूतौ नैरन्तर्याभिमानिनः शरीरासम्बन्धाविनाभूतश्च सान्तरत्वाभिमान इति नियम इन्द्रियसम्बन्धविनाभूतः शरीरसम्बन्धः, इन्द्रियासम्बन्धाविनाभूतश्च शरीरसम्बन्ध इति तु नियमो नास्तीत्यैदम्पर्यम् / / ___उने // यच्छरीरसम्बद्धं तदवश्यमिन्द्रियसम्बद्धमित्यनुषङ्गादुक्तम् / उपयुक्तं त्वत्र यदिन्द्रियसम्बद्धं तदवश्यं शरीरसम्बद्धमिति /