________________ विभाग-६ 209 प्राप्त्यभावे हि सर्वार्थोपलम्भः स्यात्, न हि प्राप्त्यभावेऽन्या काचिद्योग्यतास्ति, येनोच्यते योग्यदेशावस्थितस्यैव ग्रहणमिति / अयस्कान्तादिवदिति चेत्, न; दृष्टान्तमात्रेण सन्देहानिवृत्तेः / किमयस्कान्तादिवदप्राप्यकारित्वमिन्द्रियाणाम् ? उत प्राप्यकारित्वं वाश्यादिवदिति ? नात्र विशेष हेतुरुच्यते / अपि चायस्कान्तसंश्लिष्टं वायुद्रव्यं विशिष्टमुत्पन्नं शरीरे प्राणवत्, तच्चायः प्राप्येवाकर्षति प्राण इव तोयतूलादिकं, तत्स्पर्शानुपलम्भेऽपि तत्कार्येणैव तथाभूतस्य तस्योत्पन्नस्य सद्भावोऽवगम्यते इति / मन्त्रोऽपि सम्बद्धमेव देवतात्मानमाराधयति / स च देवताविशेषः प्राप्यैव जपितुरभिप्रेतमर्थं करोतीति न कस्यचिदप्राप्यकारित्वम् / शब्दान्तःकरणादेरतीताद्यर्थेनाप्राप्तस्यापि तज्ज्ञानजनकत्वात्कथं प्राप्यकारित्वमिति चेत्, न; अपरिज्ञानात् / सहकारिणं प्राप्य कारणस्य कार्यजनकत्वं प्राप्यकारित्वमुच्यते / तच्च शब्दान्तःकरणादेरप्यस्ति / अतीताद्यर्थस्य तु कारणत्वमेव नास्तीत्युक्तं, तेन तदप्रापकत्वेऽपि नाप्राप्यकारित्वम् / न चैवं चाक्षुषाद्यर्थस्याप्यजनकत्वं, तस्यालोकादिवदन्वयव्यतिरेकाभ्यां कारणत्वसिद्धेः / प्राप्तस्याप्यञ्जनादेरनुपलब्धिरित्येतदपि न युक्तम्, न हि यदिन्द्रियेण प्राप्तं तदुपलभ्यत एवेति नियम्यते, किं तर्हि ? यद् बाह्येन्द्रियेणोपलभ्यते तत्प्राप्तमेवेति नियमः / किं कारणं ? बाह्येन्द्रियाणां भौतिकत्वेन प्रदीपवत्प्राप्तार्थप्रकाशकत्वात् / इन्द्रियत्वान्मनसोऽपि प्रसंग इति चेत्, क्वचित्तथाभावात् / सिद्धसाधनं, नियमपक्षे त्वतीताद्यर्थैरुक्तो विरोधः / किं चान्वयव्यतिरेकाभ्यां बाह्येन्द्रियेण विद्यमानं जनकमेवोपलभ्यते जनकानां च घटदिहेतूनामिव परस्परसम्बद्धानामेवैककार्यहेतुत्वमिति सिद्धः सन्निकर्षः, तज्जनितत्वं ज्ञानस्येति / // न्यायसिद्धान्तमञ्जरीटीका तर्कप्रकाशः // . अत्र केचित् चक्षुषःप्राप्यकारित्वे चन्द्रमसोग्रहणानुपपत्तेः / शाखाचन्द्रमसोस्तुल्यकालं ग्रहणानुपपत्तेश्च अप्राप्यकार्येव तद्वाच्यम् एवं चाप्राप्यकारित्वाविशेषात् गोलकमेव तदिति पार्थिवत्वमेव तस्ये त्याहुः / तदसत् / चक्षुषोऽप्राप्यकारित्वे निमीलितनयनस्यापि चाक्षुषापत्तेः प्राप्यकार्येव तद्वाच्यम् / चक्षुषस्तैजसत्वेनातिशीघ्रगामितया चन्द्रमसा संयोग उपपद्यते / शाखाचन्द्रमसोस्तुल्यकालग्रहणं त्वसिद्धं यथा मया युगपच्छतं शतपत्राणि च्छिनानीतिवत् / तथाच गोलकस्य च घटादौ संयोगाभावेनातिरिक्तं तैजसं चक्षुः स्वीकार्यमिति / // न्यायालङ्कारः // (न्यायवार्तिक तात्पर्य परिशुद्धि विषमपद व्याख्या) (उने) तृष्णातत्कर्मसंभव इति / तृष्णा च तत्कर्म च कृष्णसारनिर्वर्तकमदृष्टं च तयोः संभवः।