________________ 208 सन्दर्भग्रन्थाः नाप्याशुभावाद् युगपदभिमानः, चन्द्रमसोऽतिविप्रकर्षादवश्यं चिरकालव्यवधानेन सम्बन्ध इति / शब्दस्य तर्हि सन्तानेनागतस्य श्रोत्रसम्बन्धादुपलब्धिरस्तु, न; दिग्देशव्यपदेशात् / न हि कर्णदेशे शब्दोपलब्धौ पूर्वापरादिदिग्व्यपदेशो ग्रामारण्यादिग्देशव्यपदेशो वा युज्यत इति / तत्सिद्धं श्रोत्रस्याप्राप्यकारित्वं, तस्मादनेन दृष्टान्तेन सर्वेन्द्रियाणां प्राप्यकारित्वं निषेद्धव्यमिति / ___ अत्रोच्यतेयत्तावत्सान्तरग्रहणादिति, तदसिद्धत्वादसाधनं, चक्षुरादेरतीन्द्रियत्वात् / कथं ततोऽर्थस्य विश्लेषः प्रत्यक्षग्राह्यः स्यात् ? अनुमानेन त्वर्थसंश्लिष्टस्यैव चक्षुरादेः प्रदीपादिदृष्टान्तादर्थप्रकाशकत्वं गम्यते / यच्चोक्तं प्राप्तिः कथमित्यादि, तत्रोच्यतेचक्षुरेव रश्मिद्वारेणार्थदेशं गत्वा प्रदीपवत्सम्बध्यते, तद्रश्मयश्चानुद्भूतरूपत्वात् न दृश्यन्ते / अनुद्भूतरूपाणामर्थप्रकाशकत्वमयुक्तमिति चेत्, न; प्रदीपादिप्रकाशसहितानां तदुपपत्तेः / अत एव येषामदृष्टसामर्थ्यादुद्भूतरूपा नायनरश्मय उत्पन्नास्तेषां बाह्यप्रकाशनिरपेक्षया एवार्थं प्रकाशयन्ति यथा नक्तंचराणाम्, तथा च केषाञ्चिन्नक्तं चराणां नायनरश्मयः प्रत्यक्षेणैव दृश्यन्त इति / - अथवाऽलोकावयवसहितेभ्यः तदवयवेभ्य उद्भूतरूपा एव नायनरश्मय उत्पद्यन्ते / दृष्टौ हि तेजसामाशुतरविनाशोत्पादौरूपस्पर्शी चोद्भूतत्वानुद्भूतत्वधर्मविकल्पोपेताविति / उद्भूतरूपत्वेनोत्पन्नानामपि रश्मीनामन्यस्मिन्समावेशाद्विवेकेनाग्रहणं, यथानेकप्रदीपरश्मीनामेकार्थसम्बद्धानामिति / पृथुतरग्रहणादित्येतदनैकान्तिकं, न हि यावत्परिमाणः प्रदीपस्तावत्परिमाणमेवार्थं प्रकाशयति रश्मिद्वारेण पृथुतरस्यापि व्यापकत्वादिति / __ यत्पुनः शाखाचन्द्रमसोस्तुल्यकालग्रहणादिति, तदप्यसिद्धत्वादसाधनम्, आशुभावित्वेन युगपदभिमानात् / चन्द्रमसोऽतिविप्रकृष्टत्वादिति चेत्, न; लाघवातिशयेन रश्मीनामतिशीघ्रगतित्वादर्करश्मिवत्-न हि भानुरश्मयोऽथैः सह सम्बध्यमानाः क्रमेणोपलभ्यन्त इति / यच्चोक्तं दिग्देशव्यपदेशादिति, तन्न; तस्यान्यथापि सम्भवात् / तथा हि-यदा पूर्वदिग्विशिष्ट कर्णशष्कुल्यवयवावच्छिन्ने नभोदेशे शब्दमुपलभते तदा पूर्वस्यां दिशि शब्द उत्पन्न इति प्रतिपद्यते / एवं दक्षिणादिदिग्विशेषेष्वपि द्रष्टव्यम् / कर्णशष्कुल्यवयवैरवच्छिन्नो हि नभोदेशः श्रोत्रम् / ते चावयवाः सर्वदिक्षु विद्यन्त इति युक्ता दिग्विशेषावच्छेदेन शब्दोपलब्धिरिति / इयति दूरे शब्द उत्पन्न इति प्रतिपत्तिश्चानुमानिकी / कथम् ? यावतो दूरात् प्रत्यक्षागमोपलब्धकारणव्यापारभाविनः शब्दस्य सन्तानेनागतस्य यान् विशेषानुपलब्धवांस्तावद् दृष्टकारणकस्यापि शब्दस्य विशेषानुपलभमानस्तावति दूरे शब्दोत्पादं प्रतिपद्यते / यथा कैश्चिदेव विशेषैः शङ्खादिकं वक्तृविशेषं च प्रतिपद्यते इति / यस्तु तथाभूतान् विशेषान्न लक्षयति तस्य संशय इति दृश्यते कस्य कुतो वायं शब्द इति ? तस्मिंश्च दिग्देशविशेषेऽनुमिते ग्रामादिकं सम्भाव्य तत्र शब्दोत्पादं व्यपदिशति, न तु देशादीनां श्रोत्रग्राह्यत्वमिति / तस्माद् बाह्येन्द्रियत्वाद्रसनादिवच्चक्षुःश्रोत्रयोरपि प्राप्यकारित्वं सिद्धम् /