________________ विभाग-६ 207 न्यूनताया निर्वक्तुमशक्यत्वाच्चेत्यस्वरसाद्धत्वन्तरमाह // शाखेति // तथा च शाखाचन्द्रमसोरेककालीनचाक्षुषजनकत्वेनापि चक्षुषि असन्निकृष्टग्राहकत्वमापादयितुं शक्यमिति भावः / उपसंहरति / एवं चेति // चक्षुषः असन्निकृष्टग्राहकत्वे चेत्यर्थः / नन्विष्टापत्तिरित्याशङ्कायामाह / / तच्चेति // तथा चेन्द्रियं नयनमिति कारिकाविरोधापत्तेर्नेष्टापत्तेस्सम्भव इति भावः // अधिष्ठानासम्बद्धेति // तथाचोक्तनियमो दीपरूपाधिष्ठानासम्बद्धघटादिग्राहिण्यां दीपप्रभायां व्यभिचरित इति भावः // तदभिमानस्य एककालीनत्वभ्रमस्य // कालसन्निकर्षेण अतिसन्निहितकालवृत्तित्वेन / ननु शाखातः चन्द्रमसोऽतिदूरत्वेन झटिति चन्द्रचक्षुः-संयोगासम्भवात् शाखाचन्द्रमसोश्चाक्षुष-योरत्यन्तसान्निध्यमेव न सम्भवति येन तुल्यकालताभ्रान्तिः स्यादित्यत आह // अचिन्त्यो हीति // निर्वक्तुमशक्य इत्यर्थः / लाघवातिशयेन वेगजनकक्रियातिशयेनेत्यर्थः / गुरुत्वाभावरूपलाघवस्य वाय्वाद्यपेक्षयाऽतिशयासम्भवादिति मन्तव्यम् // यत् यस्मात् // प्राचीनाचलः उदयगिरिः // चूडा अग्रं शिखरमिति यावत् / मयूखमालिनि सूर्ये // अभिमानो भ्रमः / उदयाचलारोहणग्रहणं किरणप्रसारयोर्वस्तुगत्यैककालीनत्वाभावादिति भावः / वस्तुतस्तु चक्षुरिन्द्रियस्य तैजसत्वसाधकानुमानस्य पूर्वमुक्ततया तत एव गोलकस्य चक्षुरिन्द्रियत्वं न शङ्कास्पदमपि / न हि सिद्धान्तिभिः प्राप्यकारित्वानुरोधेन चक्षुषस्तथात्वमङ्गीक्रियतेऽन्यथा रसनेन्द्रियादीनामधिष्ठानातिरिक्तत्वं कथं सिध्येत् / यद्यपि घ्राणेन्द्रियस्य पार्थिवत्वादधिष्ठानातिरिक्तत्वे न किञ्चिदपि मानं तथापि नासिकासत्त्वेऽपि केषाञ्चिद् गन्धानुपलब्धिदर्शनात् घ्राणादीन्द्रियमतीन्द्रियमिन्द्रियत्वान्मनोवदित्यनुमानाच्च तत्सिद्धिरिति ध्येयम् / बाह्यालोकोऽत्र न सौरालोकादिपरमाण्वादिस्तदारब्धस्य प्रत्यक्षत्वापातात् किंत्वनुद्भूतरूपवत्तेज एवेति मन्तव्यम् / // न्यायसार सभूषणम् // न प्राप्यकारिणी चक्षुःश्रोत्रे सान्तरग्रहणात् प्राप्यकारित्वे हि चक्षुरर्थयोः श्रोत्रशब्दयोश्चान्तराल. ग्रहणं न स्यात् परशुवृक्षवत् / प्राप्तिश्च कथम् ? किं चक्षुर्देशमागत्य सम्बध्यतेऽर्थः ? उतार्थदेशं गत्वा चक्षुः सम्बध्यते इति ? प्रथमे पक्षे प्रतीतिविरोधः, अग्निदर्शने चक्षुरादिदाहप्रसंगश्च / द्वितीयेऽपि पक्षे प्रतीतिविरोध:-न हि शरवदर्थसंगतं चक्षुः केनचिदुपलभ्यते / सूक्ष्मत्वादनुपलब्धिरिति चेत्, नैतदस्ति; गोलकमेव हि चक्षुरिति सर्वलोकप्रतीतं, तदुपघातेऽर्थदर्शनाभावाच्च / सूक्ष्मत्वाभ्युपगमेऽपि कि तदाकाशवदमूर्तत्वेन सूक्ष्मम् ? उताल्पप्रमाणत्वेनेति ? प्रथमे पक्षे सर्वार्थसम्बद्धत्वाद्युपग्राहकत्वं स्यात्, अमूर्त्तद्रव्यस्य व्यापकत्वाभ्युपगमात् / अथाल्पपरिमाणत्वेन सूक्ष्म, तदयुक्तम् पृथुतरग्रहणात् यावतैव प्रदेशेन सम्बन्धं दृष्टं नखनिकृन्तनादि, तावत्येव प्रदेशे क्रियां कुर्वदुपलब्धं ततश्चाल्पपरिमाणस्य चक्षुषः पर्वतादिग्राहकत्वं नोपपद्यते इति / इतश्च न प्राप्यकारि चक्षुः, शाखाचन्द्रमसोस्तुल्यकालग्रहणात्, गच्छतो हि चक्षुषः क्रमसम्बन्धार्हस्य क्रमेणैव ग्राहकत्वं युक्तं, न चैतदस्ति /